SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Acharya Shri Kailassagarsuri Gyanmandir चैत्यभक्तिः wwwmwwwwwwwwwwwwwwwwwwwwwmmaaranwwwwwwwwwwxxxmmm वासाः श्रीमंतश्च ते भावनवासाश्च तत्र तिष्ठति इति तत्स्थाः। स्वयंभासुरमूर्तयः स्वयं स्वभावेन भासुरा दीप्रा मूर्तिः स्वरूपं यासां ॥ १७ ॥ याति संति लोकेऽस्मिन्नकृतानि कृतानि च । तानि सर्वाणि चैत्यानि वंदे भूयांसि भूतये ॥१८॥ टीका-यावन्तीत्यादि । यावंति यत्परिमाणानि । संति विद्यते । लोकेऽस्मिन् तिर्यग्लोकेऽकृतानि कृतानि च । तानि भूयांसि प्रचुरतराणि चैत्यानि सर्वाणि वंदे । भूतये विभूत्यर्थं ॥ १८ ॥ ये व्यंतरविमानेषु स्थेयांसः प्रतिमागृहाः । ते च संख्यामतिक्रान्ताः संतु नो दोपविच्छिदे ॥१९॥ टोका-ये व्यंतरेत्यादि । ये प्रतिमागृहाः प्रतिमाश्च गृहाश्च प्रतिमानांवा गृहाः स्थेयांसोऽतिशयेन स्थिराः सर्वदावस्थायिनः । क ? व्यंतरविमानेषु-व्यंतरान् विशेषेण मानयन्तीति व्यंतरविमानानि व्यंतरनिवासास्तेषु । ते च तेऽपि संख्यामतिकान्ताः असंख्याताः । सन्तु भवन्तु । नोऽस्माकं । दोपशान्तये रागाद्युपरमाय ॥ १६ ॥ ज्योतिषामथ लोकस्य भूतयेद्भुतसंपदः । गृहाः स्वयंभुवः सन्ति विमानेषु नमामि तान् ॥२०॥ टीका-ज्योतिषामित्यादि।अथ व्यंतरविमानसंबंधिप्रतिमागृहस्तवनानन्तरं ज्योतिपां लोकस्य संबंधिषु विमानेषु ये गृहा सन्ति । कस्य ? स्वयंभुवोऽर्हतः । कथंभूताः १ अद्भुतसंपदः अद्भुता आश्चर्यावहा संपद्विभूतिर्येषां । नमामि तान् । किमर्थं ? विभूतये विभूतिनिमित्तं ।। २० ॥ वन्दे सुरतिरीटाग्रमणिच्छायाभिषेचनम् । याः क्रमैरेव सेवन्ते तदर्चाः सिद्धिलब्धये ॥२१॥ टीका-वन्दे इत्यादि। वंदे । काः? तदर्चाः ताश्च ता वैमानिकदेवसंबं. धिन्यः अर्चाश्च प्रतिमाः। किं कुर्वन्ति ? याः सेवन्ते । किं तत् ? सुरतिरीटाग्रमणिच्छायाभिषेचनम्-सुरावैमानिका देवा इह गृह्यन्ते ततोऽन्येषां प्रागेवोक्क For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy