SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३२ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir यदिदमित्यादिना स्तोता स्तुतेः फलं प्रार्थयतेयदिदं मम सिद्धभक्तिनीतं सुकृतं दुष्कृतवर्त्मरोधि तेन । पटुना जिनधर्म एव भक्तिर्भवताज्जन्मनि जन्मनि स्थिरा मे || १५ || टीका - यत्सुकृतं पुण्यं सिद्धभक्तिनीतमिदं सिद्धानां जगत्त्रये प्रसिद्धानां अर्हत्प्रतिबिंबानां भक्तिस्तस्या नीतं प्रापितं उपढौकितं मम । कथंभूतं ? दुष्कृतवर्त्मरोधि दुष्कृतं पापं तस्य वर्त्मा मार्गोऽप्रशस्तमनोवाक्कायलक्षणः तद्रुपद्धीत्येवंशीलं । तेन सुकृतेन । पटुना समर्थेन । भक्तिः । स्थिरा अविचला । मे जिनधर्म एव भवताद्भवतु । कदा ? जन्मनि जन्मनि भवे भवे ||१५|| चतुर्णिकायामरसम्बन्धित्वेन तिर्यग्लोकसंबंधित्वेन च जिनचैत्यस्वनार्थं अर्हतामित्याग्राह अर्हतां सर्वभावानां दर्शनज्ञानसंपदाम् । कीर्तयिष्यामि चैत्यानि यथाबुद्धि विशुद्धये ॥ १६ ॥ टीका - कीर्तयिष्यामि स्तोध्ये | कानि ? चैत्यानि प्रतिबिंबानि । केषां ? अर्हतां । किंविशिष्टानां ? सर्वभावानां सर्वे निःशेषा भावाः पदार्थाः विषयो येषां । अथवा सर्वः परिपूर्णो भावश्चारित्रपरिणामः परमौदासीन्यलक्षणः येषां । पुनरपि कथंभूतानां ? दर्शनज्ञानसंपदां दर्शनज्ञानयोः क्षायिकरूपयोः संपद्येषां तयोर्वा सतोः संपत्समवसर णादिविभूतिर्येषां । कथं तानि कीर्तयिष्यामि ? यथाबुद्धि स्वमतिविभवानतिक्रमेण | किमर्थं ? विशुद्धये कर्ममलप्रक्षालनाय ।। १६ ।। श्रीमद्भावनवासस्थाः स्वयंभासुरमूर्तयः । वंदिता नो विधेयासुः प्रतिमाः परमां गतिम् ॥ १७॥ टीका - श्रीमदित्यादि । विधेयासुः क्रियासुः । काः ? प्रतिमाः । कां ? परमां गतिं मुक्तिं । नोऽस्माकं । किंविशिष्टाः ? वंदिताः सत्यः । पुनरपि किविशिष्टाः ? श्रीमद्भावनवासस्थाः भवनेषु भवा भावनाः देवाः तेषां For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy