________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्यभक्तिः।
wwwwwwcommmmmmmmmmmmmmmmmm विगतायुधविक्रियाविभूषाः प्रकृतिस्थाः कृतिनो जिनेश्वराणां । प्रतिमा: प्रतिमागृहेषु कान्त्याप्रतिमाः कल्मषशान्तयेऽमिवंदे ॥१३॥
____टीका-विगतायुधेत्यादि । अभिवंदे अभिमुखीभूय स्तुवे । काः ? प्रतिमाः । किंविशिष्टाः ? अप्रतिमाः अतुल्याः । कया ? कान्त्या । क व्यवस्थिताः ? प्रतिमागृहेषु चैत्यालयेषु । पुनरपि कथंभूताः ? विगतायुधविक्रियाविभूषाः आयुधं प्रहरणं, विक्रिया विकारः, विविधा विशिष्टा वा भूषा अलंकारो विगता एता यासु । इत्थंभूताश्च ताः प्रकृतिस्थाः स्वरूपस्थाः। केषां प्रतिमाः ? जिनेश्वराणां । किंविशिष्टानां ? कृतिनां कृतं पुण्यं शुभायुर्नामगोत्रलक्षणं विद्यते येषां ते कृतिनः तेषां । किमर्थं अभिवंदे ? कल्मषशान्तये कल्मषं पापं तस्य शान्तये विनाशाय ॥ १३॥
कथयन्ति कषायमुक्तिलक्ष्मी परया शांततया भवान्तकानाम् । प्रणमाम्यनिरूपमूर्तिमंति प्रतिरूपाणि विशुद्धये जिनानाम् ॥१४॥
टोका-कथयंतीत्यादि । प्रणमामि । कानि ? प्रतिरूपाणि प्रतिबिंबानि । कथंभूतानि ? अभिरूपमूर्तिमन्ति अभि समंताद् रूपं यस्याः सा चासौ मूर्तिश्च स्वरूपं सा विद्यते येषां । पुनरपि कथंभूतानि ? कथयन्ति सन्ति । कां ? कषायमुक्तिलक्ष्मी कषायाणां मुक्तिरभावः तस्याः लक्ष्मीः संपत्तिः तस्यां वा सां लक्ष्मीरन्तरंगा बहिरंगा च विभूतिः । कया ? परया शांततया परमोपशांतमूर्त्या । केषां प्रतिरूपाणि ? जिनानां । किंविशिष्टानां ? भवान्तकानां ? भवः संसारः तस्य अंतका विनाशकाः । किमर्थं प्रणमामि ? विशुद्धये कर्ममलप्रक्षालनाए ॥१४॥
For Private And Personal Use Only