________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे--
चैत्यालयाश्च । ते सर्वे प्रणुताः संतः किं कुर्वन्तु ? दिशन्तु प्रयच्छतु । का? बोधि सम्यग्दर्शनज्ञानचारित्रप्राप्तिं । किंविशिष्ट ? विमलां निर्मला सायिकी। पुनरपि किंविशिष्टां ? बुधजनेष्टां बुधजना गणधरदेवादयस्तेषामिष्टामभिप्रेताम् ॥ १०॥ इदानीं कृत्रिमाकृत्रिमधर्मोपेततया जिनप्रतिमाः स्तोतुमकृतानीत्याद्याह
अकृतानि कृतानि चाप्रमेयधुतिमति द्युतिमत्सु मंदिरेषु । मनुजामरपूजितानि वंदे प्रतिबिंबानि जगत्त्रये जिनानाम् ।।११
टीका-वंदे । कानि ? प्रतिबिंबानि । केषां ? जिनानां अर्हतां । क ? जगत्त्रये त्रिभुवने । धुतिमत्सु मंदिरेषु प्रचुरप्रभासमन्वितचैत्यालयेषु स्थितानि । कथंभूतानि ? अकृतानि बुद्धिममिमित्तव्यापाराजन्यानि । कृतानि च तद्वयापारजन्यानि च । अप्रमेययुतिमंति प्रचुरतरप्रभायुक्तानि । मनुजामरपूजितानि इन्द्रचक्रवादिलोकपूजितानि ॥ ११ ॥ द्युतिमंडलभासुराङ्गयष्टीः प्रतिमा अप्रतिमा जिनोत्तमानाम् । भुवनेषु विभूतये प्रवृत्ता वपुषा प्रांजलिरस्मि वंदमानः ॥१२॥
टीका-युतिमंडलेत्यादि । प्रांजलिः प्रबद्धांजलिः अस्मि भवामि । किं कुर्वाणो १ बंदमानः । काः ? प्रतिमाः । किंविशिष्टाः ? अप्रतिमाः अनुपमाः । केन ? वपुषा तेजसा स्वरूपेण वा । पुनरपि कथंभूताः ? पुतिमंडलभासुरांगयष्टीः युतिमंडलं प्रभामंडलं तेन भासुरा दीप्ताः अंगयष्टिः यासां यष्टिरिव यष्टिः संसारमहार्णवे पततामवष्टंभहेतुत्वादंगमेव यष्टिः । भुवनेषु त्रिषु प्रवृत्ताः प्रसृताः जिनोत्तमानां अर्हतां । किमर्थ ता वंदमानः प्रांजलिरस्मि ? विभूतये अहंदादिविशिष्टपदप्राप्तये अथवा उत्कृष्टपुरुषार्थवती विशिष्टा भूतिः विशिष्टेषु वरप्रदेशेषु भूतिः प्रादुर्भावो यस्याः सा । कासौ ? विभूतिः पुण्यावाप्तिस्तस्यै ॥ १२ ॥
For Private And Personal Use Only