________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
चैत्यभक्तिः ।
२७
भगवद्वचः स्तुत्वा तत्प्रतिमास्तद्वचनात्प्रसिद्धाः स्तोतुमाहभवनविमानज्योतिव्यतरनरलोकविश्वचैत्यानि । त्रिजगदभिवंदितानां वंदे त्रेधा जिनेन्द्राणाम् ॥ ८॥
टीका-भवनेत्यादि । भवनानि च विमानानि च ज्योतिषश्च व्यंतराश्च नराश्च ज्योतिय॑न्तरनरास्तेषां लोका निवासस्थानानि । भवनविमानानि च ज्योतिय॑न्तरनरलोकाश्च तेषां विश्वचैत्यानि सर्वप्रतिमाः । केषां ? जिनेंद्राणां । कथंभूतानां १ त्रिजगदभिवंदितानां त्रिलोकाभिस्तुतानां । वेधा मनोवाक्कायैः वंदे ॥८॥ एवं चैत्यानि अभिनुत्य चैत्यालयानभिनवितुं भुवनत्रयेत्याद्याह
भुवनत्रयेऽपि भुवनत्रयाधिपाभ्यर्च्यतीर्थकर्तृणां । वंदे भवाग्निशान्त्यै विभवानामालयालीस्ताः ॥ ९॥
टीका--प्रालयालीवंदे । क याः ? भुवनत्रयेपि । अपिः पालयालीत्यस्यानन्तरं द्रष्टव्यः । न केवलं चैत्यानि किं त्वालयालीरपि वंदे । केषां ? भुवनत्रयाधिपाभ्यर्च्यतीर्थकर्तृणां भुवनानां त्रयं तस्याधिपाः स्वामिनः देवेन्द्रनरेन्द्रधरणेन्द्रास्तैरभ्याः पूज्यास्ते च ते तीर्थकराश्च तेषां । विभवानां विनष्टसंसाराणां । आलयानां जिनगृहाणां पाल्यः पंक्तयः । ता भुवनत्रयसंबंधित्वेन प्रसिद्धाः । किमर्थ वंदे ? भवाग्निशान्त्यै भवः संसारः स एवाग्निः बहुप्रकारदुःखसंतापहेतुत्वात् । तस्य शान्तिः शमनं विध्यापनं विनाशस्तस्यै ॥६॥
इतीत्यादिना स्तुतार्थमुपसंहृत्य स्तोता स्तुतेः फलं याचतेइशित पंचमहापुरुषाः प्रणुता जिनधर्मवचनचैत्यानि । चैत्यालयाश्च विमलां दिशन्तु बोधिं बुधजनेष्टाम् ॥ १० ॥
टीका-इति एवमुक्तप्रकारेण पंचमहापुरुषाः पंचपरमेष्ठिनः । प्रणुताः स्तुताः । न केवलमेते, जिनधर्मवचनचैत्यानि
For Private And Personal Use Only