________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे--
टीका-जिनेन्द्रोक्तं जिनेन्द्रप्रतिपादितं धर्म उत्तमक्षमादिलक्षणं चारित्ररूपं वावंदे। कथंभूतमित्याह क्षान्तीत्यादि । क्षान्तिः क्षमा, आर्जवमवक्रता ते आदिर्येषां । अादिशब्देन मार्दवसत्यशौचसंयमतपस्त्यागा. किंचन्यब्रह्मचर्याणि गृह्यन्ते । ते च ते गुणाश्च तेषां गणः समूहः सुशोभनं साधनं यस्य स तथोक्तस्तं । ननु चारित्रलक्षणधर्मस्य क्षान्त्यादिसुसाधनत्वं युक्त न पुनरुत्तमतमादिलक्षणं तस्यैव तद्ध तुत्वविरोधात् इति चेत् न द्रव्यरूपाणां तेषां भावरूपक्षमादिहेतुत्वे भावरूपाणां च द्रव्यरूपक्षमादिहेतुत्वे विरोधासंभवात् । पुनरपि कथंभूतं ? सकललोकहितहेतु सकलाश्च ते लोकाश्च प्राणिनः तेभ्यो हितं सुखं तद्ध तुश्च तस्य हेतुस्तं । शुभधामनि धातारं शुभं च तद्धाम च निर्वाणं तत्र धातारं स्थापयितारं ॥ ६॥
___ एवं जिनेन्द्रोक्तं धर्म स्तुत्वा तद्वचनं स्तोतुमाहमिथ्याज्ञानतमोवृतलोकैकज्योतिरमितगमयोगि । सांगोपांगमजेयं जैनं वचनं सदा वंदे ॥ ७ ॥
टीका-मिथ्याज्ञानेत्यादि । मिथ्याज्ञानं विपरीतज्ञानं तदेवतमःतेन वृतः प्रच्छादितः स चासौ लोकश्च तस्यैकं अद्वितीयं ज्योतिः जीवाद्यशेषतत्त्वप्रकाशकत्वात् । अमितगमयोगि अमितोऽपरिमितः असंख्यातः स चोसौ गमश्च अशेषार्थविषयं श्रुतज्ञानं तेन योगः संबंधः कार्यकारणभावलक्षणः श्रुतस्य तज्जनकत्वात् । यदि वा अमितगमोऽनंतावबोधः केवलज्ञानं तेन योगः तस्य तजन्यत्वात् सोऽस्यास्तीति तद्योगि । सांगोपांग अंगानि आचारादीनि उपांगानि पूर्ववस्तुप्रभृतीनि सह तैर्वर्तते इति सांगोपांगं । न जीयते एकान्तवादिभिरिति अजेयम् । शक्यार्थस्य अविवक्षितत्वादजय्यमिति न भवति । तदेवंविधं जैनं वचनं सदा वंदे जिनस्येदं जैनमित्यनेनेश्वरादिवचनव्यवच्छेदः । सदा इत्यनेन नियतकाल. विषयस्तुतिव्युदासः ॥७॥
For Private And Personal Use Only