________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चैत्यभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा भवत्येवं विघट्य । विघटितमपि हि द्वारं अर्गलासद्भावे नेष्टप्रदेशे प्रवेष्टुं प्रयच्छति । कथंभूतं मोक्षं ? विगतरजसं रजो ज्ञानदृगावरणे सकलकर्माणि वा, विगतं विनष्ट' रजो यत्र । निरत्ययं श्रत्ययो व्याधिः जरामरणे वा ततो निष्क्रांतं । श्रव्ययं अविनश्वरं ॥ ३ ॥
अर्हत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः । सर्वजगद्वंद्येभ्यो नमोस्तु सर्वत्र सर्वेभ्यः ॥ ४ ॥
२००
टीका - अर्हत्सिद्ध त्यादि । अर्हन्तश्च सिद्धाश्च आचार्याश्च उपाध्यायाश्च तेभ्यो नमोस्तु नमस्कारो भवतु । तथा च तथैव साधुभ्यो नमोस्तु । कथंभूतेभ्यः ? सर्वजगद्वंद्येभ्यः सर्वाणि च तानि जगन्ति च त्रयो लोकास्तेषां वंद्याः तेभ्यः । किं नियते दोत्रे नियतेभ्यः इत्याह सर्वत्र सर्वेभ्यः ॥ ४ ॥
पंचपरमेष्ठिनः सामान्येन नमस्कृत्य मोहादीत्यादिना श्रर्हतः पुनर्विशेषतः नमस्करोति, तेषां धर्मोपदेष्टृत्वेनोपकारकरत्वात्मोहादिसर्व दोषारिघातकेभ्यः सदाहतरजोभ्यः । विरहितरइस्कृतेभ्यः पूजाद्देभ्यो नमोऽईद्भयः ॥ ५ ॥
I
टीका - मोहो मोहनीयं स आदिर्येषां क्षुधादीनां ते च ते सर्वे दोषाश्च त एवारयोऽरिकार्यकारित्वात् । यथैव हरयो दुखदा एवमेतेऽपि । तेषां घातकेभ्यः । सदाहतरजोभ्यः सदा सर्वकालं हते विनाशिते रजसी ज्ञानeगावरणे यैः । विरहितरहस्कृतेभ्यः रहस्कृतमंतरायो विरहितं स्फेटितं रहस्कृतं यैः । पूजार्हेभ्य इन्द्राद्युपनीतां अतिशयवतीं पूजामईन्तीति पूजाहस्तेभ्यो नमोऽर्हद्भयः ॥ ५ ॥
एवमर्हता वंदित्वा तद्धमं वंदमानः क्षान्त्यार्जवादीत्याग्राहक्षान्त्यार्जवादिगुणगणसुसाधनं सकललोकहितहेतुं । शुभधामनि धातारं वंदे धर्म जिनेन्द्रोक्तम् ॥ ६ ॥
For Private And Personal Use Only