Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्यभक्तिः।
येषु हि वृत्ताः शब्दा अवयवेषु वर्तन्ते इत्यभिधानात् । कुतो हेतोः ? कोपावेशात्ते अताम्र भविष्यतः इत्याह सकलकोपवर्जयात्-सकलो अनंतानुबंध्यादिभेदभिन्नः स चासौ कोपश्च स एव वह्निः संतापहेतुत्वात् तस्य जयात् क्षयकरणात् । पुनरपि कथंभूतं ? कटाक्षशरमोक्षहीनंकामोद्रेकादिष्टे प्राणिनि तिर्यग्दृष्टिपातः कटाक्षः स एव शरो मर्मवेधित्वात् तस्य मोक्षो मोचनं तेन होनं । कुतः १ अविकारतोद्रे कतः-अविकारता वीतरागता तस्या उद्र कतः परमप्रकर्षप्राप्तत्वात् । पुनरपि किंविशिष्टं ? प्रहसितायमानं सदा प्रहसितं इव आत्मानं आचरतीति प्रहसितायमानं । सदा सर्वकालं । कुतः ? विषादमदहानितः । विषादान्मदाच्च कदाचिदप्रसन्नता मुखे भवति, भगवति तु तयोरत्यंतप्रक्षयतस्तन्मु. खस्य सर्वदा प्रसन्नतोपपत्तेः प्रहसितायमानं सदा इत्युच्यते ।। ३१ ।। निराभरणभासुरं विगतरागवेगोदया
निरंबरमनोहरं प्रकृतिरूपनिर्दोषतः । निरायुधसुनिर्भय विगतहिंस्यहिंसाक्रमा
निरामिषसुतृप्तिमद्विविधवेदनानां क्षयात् ॥३२॥ टीका-पुनरपि कथंभूतं रूपं ? निराभरणभासुरं--प्राभरणेभ्यो निष्क्रांतं निराभरणं तच्च तद्भासुरं च भासनशीलं परमशोभासमन्वितं ।
आभारणशोभामपि कुतस्तन्न करोतीति चेत् विगतरागवेगोदयात्-रागस्य वेग आवेशस्तस्योदयो विशेषेण गतो नष्टः स चासौ रागवेगोदयश्च तस्मात् । निरम्बरमनोहरं-अम्बरेभ्यो वस्त्रेभ्यो निष्क्रान्तं निरंबरं तच्च तन्मनोहरं च मनोक्षं । कस्मात्तदम्बराण्यपि नादत्ते इत्याह प्रकृतिरूपनिर्दोषत:--प्रकृतिरूपं सहजरूपं तत्र निर्दोषतः रागादिदोषासंभवात् । अनेन विशेषणद्वयेन श्वेतपटाः भगवतः कुंडलाद्याभरणं देवांगवस्त्रादिपरिधानं च परिकल्पयंतः प्रत्युक्ताः । ननु निर्दोषत्वेऽपि लज्जाप्रच्छादनार्थं वस्त्रग्रहणं भगवतो न विरुद्धमित्यप्यनुपपन्न लज्जाया
For Private And Personal Use Only

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358