Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे अवनितलगतानां कृत्रिमाकत्रिमाणां वनभवनगतानां दिव्यवैमानिकानाम् । इह मनुजकृतानां देवराजार्चितानां जिनवरनिलयानां भावतोऽहं नमामि ॥२॥ जम्बू(तकिपुष्करार्धवसुधाक्षेत्रत्रये ये भवा चन्द्राम्भोजशिखंडिकंठकनकप्रावृड्धनाभा जिनाः । सम्यग्ज्ञानचरित्रलक्षणधरा दग्धाष्टकर्मेन्धना भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥३॥ श्रीमन्मेरौ कुलाद्री रजैतगिरिवरे शाल्मली जम्बुवृक्षे वक्षारे चैत्यपक्षे रतिकररुचके कुण्डले मानुषाके । ईष्वाकारेऽञ्जनाद्रौ दधिमुखशिखरे व्यन्तरे स्वर्गलोके ज्योतिर्लोकेऽभिवन्दे भवनमहितले यानि चैत्यालयानि ॥४॥ ४-त्रिभुवनस्थितानां । ५-दिवि भवा दिव्या विमानेषु भवा वैमानिकास्तत्र दिव्या ज्योतिर्लोकभवा असंख्याता वैमानिकाः कल्पादिभवाः । ६-अस्मिन् मनुष्यलोके । ७–कैलासादौ भरतवक्रवादिनिर्मिताना । ८--जम्बूवसुधा जम्बूद्वीपः धातकिवसुधा धातकिद्वीपः पुष्करार्धवसुधा पुष्करार्धद्वीपः जम्बूधातकिपुष्करार्धवसुधा लक्षणं यत्क्षेत्रत्रयं द्वीपत्रयं तज्जम्बूधातकिपुष्करार्धवसुधाक्षेत्रत्रयं तस्मिन् । १-चन्द्राभाश्चाम्भोजा. भाश्च शिखंडिकंठाभाश्च कनकाभाश्च प्रावृड्घनामाश्च ते तथोक्ताः । १०-सम्यग्ज्ञानं च सम्यक्चरित्रं च लक्षणानि चाष्टाधिकसहस्र सम्य. रज्ञानचरित्रलक्षणानि धरन्तीति तथोक्ता अथवा लक्षणं सम्यग्दर्शनमुच्यते तेन रत्नत्रयसहिता इत्यर्थ.।११--विजयार्धसंज्ञपर्वतेषु । १२-जम्बू. द्वीपमेरोदक्षिणे महान्मणिमयः शाल्मलिवृक्षोऽस्ति तदुपरि जिनाजयोऽस्ति तस्मिन् यानि चैत्यानि सन्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358