Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 356
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir Acha नैमित्तिकक्रियाप्रयोगयिधिः। ३३६ अहाननं स्थापनं सन्निधीकरणं । ततश्च "ॐ ह्रौं णमो उवज्भायाणं उपाध्यायपरिमेष्ठिने नमः" इमं मंत्रं सहेन्दुना चन्दनेन शिरसि न्यसेत् । ततश्च शान्तिसमाधिभक्ती पठेत् । ततः स उपाध्यायो गुरुभक्ति दस्वा प्रणम्य दात्रे आशिषं दद्यादिति । इत्युपाध्यायपदस्थानविधिः। अथाचार्यपदस्थापनविधिः। सुमूहूर्ते दाता शान्तिकं गणधरवलयार्चनं च यथाशक्ति कारयेत् । ततः श्रीखंडादिना छटादिकं कृत्वा आचार्यपदयोग्यं मुनिमासयेत् । आचार्यपदप्रतिष्ठापनक्रियायां इत्याधुच्चार्य सिद्धाचार्यभक्ती पठेत्। “ॐ हूं परमसुरभिद्रव्यसन्दर्भपरिमलगर्भतीर्थाम्बुसम्पूर्णसुवर्णकलशपंचकतोयेन परिषेचयामीति स्वाहा” इति पठित्वा कलशपंचकतोयेन पादोपरि सेचयेत् । ततः पंडिताचार्यो “निर्वेद सौष्ठ" इत्यादि महर्षिस्तवनं पठन् पादौ समंतात्परामृश्य गुणारोपणं कुर्यात् । ततः ॐ हूँ, णमो आइरियाणं आचार्यपरमेष्ठिन् ! अत्र एहि एहि संवौषट् आवाहनं स्थापन सन्निधीकरणं । ततश्च "ॐ हूँ णमो श्राइरियाणं धर्माचार्याधिपतये नमः" अनेन मंत्रेण सहेन्दुना चन्दनेन पादयो योस्तिलकं दद्यात् । ततः शान्तिसमाधिभक्ती कृत्वा गुरुभक्त्या गुरु' प्रणम्योपविशति । तत उपासकास्तस्य पादयोरष्टतयीमिष्टिं कुर्वन्ति । यतयश्च गुरुभक्तिं दत्वा प्रणमन्ति । स उपासकेभ्य आशीर्वाद दद्यात् । इत्याचार्यपददानविधिः। ॐ ह्रां ह्रीं श्रीं अहं हंसः प्राचार्याय नमः-आचार्यवाचनामंत्रः। अन्यच्च ॐ ह्रीं श्रीं अई हं सः प्राचार्याय नमः-प्राचार्यमंत्रः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 354 355 356 357 358