SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे अवनितलगतानां कृत्रिमाकत्रिमाणां वनभवनगतानां दिव्यवैमानिकानाम् । इह मनुजकृतानां देवराजार्चितानां जिनवरनिलयानां भावतोऽहं नमामि ॥२॥ जम्बू(तकिपुष्करार्धवसुधाक्षेत्रत्रये ये भवा चन्द्राम्भोजशिखंडिकंठकनकप्रावृड्धनाभा जिनाः । सम्यग्ज्ञानचरित्रलक्षणधरा दग्धाष्टकर्मेन्धना भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥३॥ श्रीमन्मेरौ कुलाद्री रजैतगिरिवरे शाल्मली जम्बुवृक्षे वक्षारे चैत्यपक्षे रतिकररुचके कुण्डले मानुषाके । ईष्वाकारेऽञ्जनाद्रौ दधिमुखशिखरे व्यन्तरे स्वर्गलोके ज्योतिर्लोकेऽभिवन्दे भवनमहितले यानि चैत्यालयानि ॥४॥ ४-त्रिभुवनस्थितानां । ५-दिवि भवा दिव्या विमानेषु भवा वैमानिकास्तत्र दिव्या ज्योतिर्लोकभवा असंख्याता वैमानिकाः कल्पादिभवाः । ६-अस्मिन् मनुष्यलोके । ७–कैलासादौ भरतवक्रवादिनिर्मिताना । ८--जम्बूवसुधा जम्बूद्वीपः धातकिवसुधा धातकिद्वीपः पुष्करार्धवसुधा पुष्करार्धद्वीपः जम्बूधातकिपुष्करार्धवसुधा लक्षणं यत्क्षेत्रत्रयं द्वीपत्रयं तज्जम्बूधातकिपुष्करार्धवसुधाक्षेत्रत्रयं तस्मिन् । १-चन्द्राभाश्चाम्भोजा. भाश्च शिखंडिकंठाभाश्च कनकाभाश्च प्रावृड्घनामाश्च ते तथोक्ताः । १०-सम्यग्ज्ञानं च सम्यक्चरित्रं च लक्षणानि चाष्टाधिकसहस्र सम्य. रज्ञानचरित्रलक्षणानि धरन्तीति तथोक्ता अथवा लक्षणं सम्यग्दर्शनमुच्यते तेन रत्नत्रयसहिता इत्यर्थ.।११--विजयार्धसंज्ञपर्वतेषु । १२-जम्बू. द्वीपमेरोदक्षिणे महान्मणिमयः शाल्मलिवृक्षोऽस्ति तदुपरि जिनाजयोऽस्ति तस्मिन् यानि चैत्यानि सन्ति । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy