Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राकृत - पंचमहागुरुभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
२१५
टीका -- पंचहाचारपंच ग्गिसंसाया -- पंचधाचारपंचाग्निसंसाधकाः, पंचधाचारः ज्ञानाचारः दर्शनाचारः तप-- आचारः वीर्याचारः चारित्राचारश्चेति स एव पंचाग्निः कर्मेन्धनभस्मीकरणसमर्थत्वात् तस्य संसाधकाः सम्यगनुष्ठातारः 1 वारसंगाइंसुअल हिमवगाह्याद्वादशाङ्गश्रुतजलध्यवगाद्दकाः द्वादशाङ्गश्रुतमेव जलधिर्महासमुद्रः सम्यक्त्वादिरत्नाश्रयत्वात् गांभीर्यादिगुणत्वाद्वा तस्यावगाहका विलोड्य पर्यन्तगामिनः मोक्खलच्छी -- मोक्षलक्ष्मीं, महंती -- महतीं अनन्तां, महं - महा', ते सूरिणो-ते सूरयः आचार्याः, सया-सदा, किंतु-ददतु विश्राणन्तु वितरन्तु प्रयच्छन्तु । कथंभूतास्ते सूरयः ? मोक्खं गयासं गया -- मोक्षं सर्वकर्मक्षयलक्षणं, गयासं - गता इहपरलोकाशारहितं गताः प्राप्ताः ।
"
I
For Private And Personal Use Only
ww-d
घोरसंसार भीमावीकाणणे, तिक्खवियरालणहपावपंचाणणे । मरगाण जीवाण पहदेसिया, बंदिमो ते उवज्झाय अम्हे सया ॥ ४ ॥
-
टीका - अम्हे - वयं, ते - तान्, उवज्झाय - उपाध्यायान् नंदिमो वन्दामः पादावलग्नपूर्वकं संस्तुमः । कथं ? सया - सदा सर्वकालं । तान कान् ? ये इति अध्याहार्यं ये जीवाण— जीवानां भव्यप्राणिन, पदेसया – मोक्षमार्ग प्रकाशकाः । कथंभूतानां जीवानां ? राद्रुमग्गाणनष्टमार्गाणां मिथ्यामोहाज्ञान कुतपः परिणतानां । कस्मिन् ? घोरेत्यादि - घोरोऽतिरौद्रः स चासौ संसारश्चतुर्गतिलक्षणः स एव भीमाडीकाण भयानकोद्वसयनं तस्मिन् । कथंभूते संसारकानने ? तिक्खेत्यादि -- तीच्या निशाता हृदयकायकदर्धका विकराला अतिरौद्रा एवंविधा नखा उदयलक्षणा नखरा येषां ते तीक्ष्णविकरालनखास्तादृशाः पापपंचाननाः पापसिंहा यस्मिन् तत्तथोक्त तस्मिन् दुःखजनकनख हिंसादिपातकसिंहा इत्यर्थः ।

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358