Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कृत पञ्चमहागुरुभक्तिः।
२६३
~~~
~
~~~~~
अष्टगुणैः समुपेतान् प्रणष्टदुष्टाष्टकर्मरिपुसमितीन् । सिद्धान् सततमनन्तानमस्करोमीष्टतुष्टिसंसिद्धथै ॥२॥ साचारश्रुतजलधीन प्रतीर्य शुद्धोरुचरणनिरतानाम् । आचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ॥ ३ ॥ मिथ्यावादिमदोग्रवान्तप्रध्वंसिधचनसंदर्भान् । उपदेशकान् प्रपद्ये मम दुरितारिप्रणाशाय ॥ ४ ॥ सम्यग्दर्शनदीपप्रकाशका मेयबोधसंधूताः। भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥ ५ ॥ जिनसिद्धसरिदेशकसाधुवरानमलगुणगणोपेतान् । पंचनमस्कारपदेस्त्रिसन्ध्यमभिनौमि मोक्षलाभाय ॥६॥ एष पंचनमस्कारः सर्वपापप्रणाशनः । मंगलानां च सर्वेषां प्रथमं मंगलं मतं ॥ ७ ॥ अर्हत्सिद्धाचार्योपाध्यायाः सर्वसाधवः । कुर्वन्तु मङ्गलाः सर्वे निर्याणपरमश्रियम् ॥ ८॥ सर्वान् जिनेन्द्रचन्द्रान् सिद्धानाचार्यपाठकान साधुन् । रत्नत्रयं च वन्दे रत्नत्रयसिद्धये भक्त्या ॥९॥ पान्तु श्रीपादपद्मानि पंचानां परमेष्ठिनाम् । लालितानि सुराधीशचूडामणिमरीचिभिः ॥ १० ॥ प्रातिहार्जिनान् सिद्धान् गुणैः सूरीन स्वमातृभिः । पाठकान् विनयैः साधून योगाङ्गैरष्टभिः स्तुवे ॥ ११ ॥
For Private And Personal Use Only

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358