Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
क्रिया-किलापे
उग्गतवचरणकरणेहिं झीणंगया, धम्मवरझाण-सुक्केकझाणं गया । निब्भरं तवसिरीए समालिंगया, साहवो ते महं मोक्खपथमग्गया ॥५॥
टीकाते साहवो-ते साधवः, महं-मद्य, मोक्खपहमग्गयामोक्षपथे मार्गदा अवकाशप्रदा भवन्तु मोक्षमार्गे मां चलयन्त्वित्यर्थः । ते के ? ये उग्गेत्यादि-उम्र तीव्र चतुर्थाद्युपवासपारणेऽपि अत्यक्तपूर्वोपवासं तच्च तत्तपश्चरणं च तस्य करणैरनुष्ठानैः, झीशंगया-क्षीणशरीराः। पुनर्ये कथंभूताः ? धम्मवरझाणसुक्केक्कझाणं गया-धर्मवरध्यानशुक्लैकध्यानं गताः"""""""""। निन्भरं-निर्भरमतिगाढं उपसर्गपरीषहनिपातेऽप्यपरित्यक्तप्रतिज्ञं यथा भवतीत्येवं । तवसिरीएतपःश्रियास्तपोलक्ष्म्याः । समालिंगया-समालिंगकाः सम्यगुपगृहकाः । एण थोत्तेण जो पंचगुरु वंदए, गुरुयसंसारघणवेल्लि सो छिंदए । लहइ सो सिद्धिसोक्खाई वरमाणणं, कुणइ कम्मिधर्णपुंजपज्जालणं ॥६॥ __टीका-एण-अनेन प्रत्यक्षीभूतेन, थोत्तेण-स्तोत्रेण पुण्यगुणस्तवनेन, जो-यो भव्यजीवः, पंचगुरु-पंचगुरून् पंचपरमेष्ठिनः, नंदए-वंदते स्तौति । सो-सः, गुरुयसंसारघणवेल्लि-गुरुको महान् अनन्तभत्रभावी योऽसौ संसारः स एव घनवल्लिनिविडवल्लिस्तां, छिदए-छिनत्ति अनन्तभवभ्रमणं करिष्यन्नपि भवत्रयेण मोक्षं यातीत्यर्थः । लहइ-लभते प्राप्नोति, सो-सः, कानि ? सिद्धिसोक्खाई सिद्धिसौख्यानि आत्मोपलब्धिसमुद्भूतपरमानन्दानिति भावः । कथं लभते ? वरमाणणं-गणधरचक्रधरधरणेन्द्रादीनां माननं पूजनं यथा भवत्येवं तीर्थकरो भूत्वा मुक्ति यातीत्यर्थः । कुणइ-करोति । किं ? कम्मिधणपुंजपज्जालण-कर्मेन्धनपुंजप्रज्वालनमष्टकर्मकाष्ठकूटभस्मीकरणं । प्राकृते क्वचिदधिकबिन्दोर्दोषो नास्ति ।
अरुहा सिद्धाइरिया उवज्झाया साहु पंचपरमेही । एयाण णमुक्कारा भवे भवे मम सुहं दितु ॥ ७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358