SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ क्रिया-किलापे उग्गतवचरणकरणेहिं झीणंगया, धम्मवरझाण-सुक्केकझाणं गया । निब्भरं तवसिरीए समालिंगया, साहवो ते महं मोक्खपथमग्गया ॥५॥ टीकाते साहवो-ते साधवः, महं-मद्य, मोक्खपहमग्गयामोक्षपथे मार्गदा अवकाशप्रदा भवन्तु मोक्षमार्गे मां चलयन्त्वित्यर्थः । ते के ? ये उग्गेत्यादि-उम्र तीव्र चतुर्थाद्युपवासपारणेऽपि अत्यक्तपूर्वोपवासं तच्च तत्तपश्चरणं च तस्य करणैरनुष्ठानैः, झीशंगया-क्षीणशरीराः। पुनर्ये कथंभूताः ? धम्मवरझाणसुक्केक्कझाणं गया-धर्मवरध्यानशुक्लैकध्यानं गताः"""""""""। निन्भरं-निर्भरमतिगाढं उपसर्गपरीषहनिपातेऽप्यपरित्यक्तप्रतिज्ञं यथा भवतीत्येवं । तवसिरीएतपःश्रियास्तपोलक्ष्म्याः । समालिंगया-समालिंगकाः सम्यगुपगृहकाः । एण थोत्तेण जो पंचगुरु वंदए, गुरुयसंसारघणवेल्लि सो छिंदए । लहइ सो सिद्धिसोक्खाई वरमाणणं, कुणइ कम्मिधर्णपुंजपज्जालणं ॥६॥ __टीका-एण-अनेन प्रत्यक्षीभूतेन, थोत्तेण-स्तोत्रेण पुण्यगुणस्तवनेन, जो-यो भव्यजीवः, पंचगुरु-पंचगुरून् पंचपरमेष्ठिनः, नंदए-वंदते स्तौति । सो-सः, गुरुयसंसारघणवेल्लि-गुरुको महान् अनन्तभत्रभावी योऽसौ संसारः स एव घनवल्लिनिविडवल्लिस्तां, छिदए-छिनत्ति अनन्तभवभ्रमणं करिष्यन्नपि भवत्रयेण मोक्षं यातीत्यर्थः । लहइ-लभते प्राप्नोति, सो-सः, कानि ? सिद्धिसोक्खाई सिद्धिसौख्यानि आत्मोपलब्धिसमुद्भूतपरमानन्दानिति भावः । कथं लभते ? वरमाणणं-गणधरचक्रधरधरणेन्द्रादीनां माननं पूजनं यथा भवत्येवं तीर्थकरो भूत्वा मुक्ति यातीत्यर्थः । कुणइ-करोति । किं ? कम्मिधणपुंजपज्जालण-कर्मेन्धनपुंजप्रज्वालनमष्टकर्मकाष्ठकूटभस्मीकरणं । प्राकृते क्वचिदधिकबिन्दोर्दोषो नास्ति । अरुहा सिद्धाइरिया उवज्झाया साहु पंचपरमेही । एयाण णमुक्कारा भवे भवे मम सुहं दितु ॥ ७ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy