Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समाधि-भक्तिः ।
२६४
wwwwwwwwwwwwwwwwwwwwr
तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तावद्यावनिर्वाणसम्प्राप्तिः ॥२॥
टीका-हे जिनेन्द्र-तीर्थकरपरमदेव ! तव-भवतः, पादौ चरणौ, मम हृदये मदीयचित्ते तावत्कालं तिष्ठतां । तावत्कियत् ? यावत्कालं निर्वाणसम्प्राप्तिः-सर्वकर्मक्षयोत्पन्नात्मलब्धिः । यदि भगवतः पादौ तव हृदये तिष्ठतस्तर्हि तव हृदयं क तिष्ठतीत्याह- हे जिनेन्द्र ! मम हृदयं-मदीयं चित्तं तव पादद्वये-भवतश्चरणयुगले लीनं-तन्मयतां गतं सन्तिष्ठतु । कियन्तं कालं ? यावनिर्वाणसंप्राप्तिरिति ।
अक्खरपपत्थहीणं मत्ताहीणं च जं मए भणियं । तं खमउ णाणदेवय ! मज्झ य दुक्खक्खयं किंतु ॥ ३ ॥
टीका-अक्षराणि च अकारादीनि पदानि च स्याद्यन्तत्याधन्तादीनि अर्थश्वाभिधेयं वाच्यं तैीनं न्यूनं अक्षरपदार्थहीनं । मत्ताहीणं च मात्रालघुदीर्घादिका तया हीनं च । जं मए भणियं यन्मया भणितं-उच्चारितं, तं-तत् , खमउ-क्षम्यतां, णणदेवय !-ज्ञानदेवते सरस्वति ! तथा मज्म य-मह्य च, दुक्खक्खयं-शारीरमानसाद्यसात. विनाशं, दितु-ददातु।
__ अञ्चलिकादुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।
For Private And Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358