SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कृत पञ्चमहागुरुभक्तिः। २६३ ~~~ ~ ~~~~~ अष्टगुणैः समुपेतान् प्रणष्टदुष्टाष्टकर्मरिपुसमितीन् । सिद्धान् सततमनन्तानमस्करोमीष्टतुष्टिसंसिद्धथै ॥२॥ साचारश्रुतजलधीन प्रतीर्य शुद्धोरुचरणनिरतानाम् । आचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ॥ ३ ॥ मिथ्यावादिमदोग्रवान्तप्रध्वंसिधचनसंदर्भान् । उपदेशकान् प्रपद्ये मम दुरितारिप्रणाशाय ॥ ४ ॥ सम्यग्दर्शनदीपप्रकाशका मेयबोधसंधूताः। भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥ ५ ॥ जिनसिद्धसरिदेशकसाधुवरानमलगुणगणोपेतान् । पंचनमस्कारपदेस्त्रिसन्ध्यमभिनौमि मोक्षलाभाय ॥६॥ एष पंचनमस्कारः सर्वपापप्रणाशनः । मंगलानां च सर्वेषां प्रथमं मंगलं मतं ॥ ७ ॥ अर्हत्सिद्धाचार्योपाध्यायाः सर्वसाधवः । कुर्वन्तु मङ्गलाः सर्वे निर्याणपरमश्रियम् ॥ ८॥ सर्वान् जिनेन्द्रचन्द्रान् सिद्धानाचार्यपाठकान साधुन् । रत्नत्रयं च वन्दे रत्नत्रयसिद्धये भक्त्या ॥९॥ पान्तु श्रीपादपद्मानि पंचानां परमेष्ठिनाम् । लालितानि सुराधीशचूडामणिमरीचिभिः ॥ १० ॥ प्रातिहार्जिनान् सिद्धान् गुणैः सूरीन स्वमातृभिः । पाठकान् विनयैः साधून योगाङ्गैरष्टभिः स्तुवे ॥ ११ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy