________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
क्रिया-कलापे
GOVIND
प्राकृत-पंचमहागुरुभक्तिः ।
बस्त ( २ )
मणु-णाईद- सुरधरियछत्तत्तया, पंच कल्लाणसोक्खावलीपत्तया । दंसणं णाण झाणं अनंतं बलं, ते जिणा दिंतु अम्हं वरं मंगलं ॥ १ ॥
टीका -- मनुजेन्द्राश्चक्रवर्त्यादयो नागेन्द्रा धरणेन्द्रादयः सुरा देवेन्द्रादयस्तैधृतं कर्मकारैरिव गृहीतं छत्रत्रयं येषां ते मनुजनागेन्द्रसुरधृतच्छत्रत्रयाः, पंचकल्याणानि गर्भावतार - जन्माभिषेक - निष्क्रमण -- ज्ञान - निर्वाणानि तेषु या सौख्यावली सुखश्रेणिस्तां प्राप्ताः पंचकल्याणसौख्यावलोप्राप्ताः । एवं विंशेषणद्वयविशिष्टास्ते जिरणा - सर्वज्ञाः, किंतुददतु । किं ? दंसणं - केवलदर्शनं, गाणं - केवलज्ञानं, झाणं - ध्यानं परमशुक्लध्यानं, अनंतं -- अपारं बलं - त्रीर्यं । ध्यानशब्देनात्र स्वात्मोत्थमनन्वसौख्यं लभ्यते तेनायमर्थः - अनन्तज्ञानादिचतुष्टयं ददतु । कथंभूतास्ते जिना: १ वरं मंगलं - उत्कृष्टं मंगलं पापगालनसुखलानसमर्था इत्यर्थः ।
Vidy
Acharya Shri Kailassagarsuri Gyanmandir
जेहिं झाणग्गित्राणेहिं अइथद्दयं, जम्म- जर मरणनयरतयं दड्ढयं । जेहिं पत्तं सिवं सासयं ठाणयं, ते महं दिंतु सिद्धा वरं गाणयं ||२||
पंचहाचार-पंचग्गिसंसाहया,
टीका - यैः ध्यानाग्निबाणैः कृत्वा अतिस्तब्धमतिकठोरं जन्मजरा-मरणनगरत्रयं दग्धं । जेहिं पत्तं - यः प्राप्त लब्धं, सिवं - परमनिर्वाणं शाश्वतं स्थानं - त्रिलोकात्रं, ते सिद्धाः महं- महा, दिंतुप्रयच्छन्तु । किं ? वरं गाणयं -- केवलज्ञानमित्यर्थः ।
वारसंगाईसुअ- जलहिअवगाहया ।
मोक्खलच्छी महंती महं ते सया,
सूरिणो दिंतु मोक्खं गयासं गया ॥ ३ ॥
For Private And Personal Use Only