Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैत्य-भक्तिः । २८७ मरणान्येव मकरप्रकरः शरीरायपायहेतुत्वात, अतिदूरं निरस्तो निक्षिप्तो मरणमकरप्रकरो निर्वाणप्राप्तिहेतुत्वाद्येन तत्तथोक्तं ॥२७॥ अथोच्यते तीर्थमनेकप्रकारपक्षिशब्दपुलिनजलावरोधजलनिर्गमध. मैंरुपेतं भवति, इदं तु तथा न भवष्यतीत्यत्राह ऋषिवृषभस्तुतिमंद्रोद्रेकित निर्घोषविविधविहगध्यानम् । विविधतपोनिधिपुलिनं सास्रवसंवरणनिर्जरानिःस्रवणम् ॥२८॥ टीका-ऋषिवृषभेत्यादि-ऋषीणां वृषभाः गणधरदेवादयः, स्तुतिरूपाणि मन्द्राणि मनोज्ञानि उद्रेकितानि उत्कटशब्दितानि तानि च निर्घोषाश्च शास्त्रपाठाः स्तुतिमंद्रोद्रेकितनिर्घोषाः, ऋषिवृषभाणां स्तुतिमन्द्रोद्रेकितनिर्घोषास्त एव विविधा नाना प्रकरा विहगध्वानाः पक्षिशब्दाः यत्र । विविधतपोनिधिपुलिनं-विविधानि च बहुप्रकाराणि तपांसि निधीयते येषु ते विविधतपोनिधयो मुनिवराः त एव पुलिनं संसारसरित्प्रवाहे प्रवहतां तदुत्तरणस्थानं यत्र । सास्रवसंवरणनिर्जरानिःस्रवणं-आस्रवणं आस्रवः कर्मागमनं तस्य संवरणं निवारणं यथा प्रविशतो जलस्य अवरोध इति, निर्जरा उपात्तकर्मणां निर्जरणं सैव निःसरणं यथोपात्तस्य जलस्य निर्गमः इति, आस्रवसंवरणं च निर्जरानिःस्रवणं च ताभ्यां सह वर्तते इति सानवसंवरणनिर्जरानिःस्रवणं ॥२८॥ गणधरचक्रधरेन्द्रप्रभृतिमहामव्यपुंडरीकैः पुरुषैः । बहुमिःम्नातं भक्त्या कलिकलुषमलापकर्षणार्थममेयम् ॥२९॥ टीका-गणधरेत्यादि । तदित्थंभूतं तीर्थं पुरुषैर्बहुभिः स्नातं स्नान्त्यस्मिन्निति स्नातं । किंविशिष्टैस्तैः ? गणधरचक्रधरेन्द्रप्रभृतिमहाभव्यपुण्डरीकैः-गणधराश्च चक्रधराश्च इन्द्राश्च ते प्रभृतय आयाः येषा ते च ते महान्तश्च ते भव्यपुण्डरीकाश्च भव्यानां प्रधानाः, यदि वा महाभव्याश्च ते पुण्डरीकाश्चेति विग्रहः तैः । कया स्नातं ? भत्त्या। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358