Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चैत्यभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir २८५ च कुहकतीर्थं श्रतिक्रान्तं लौकिकं कुहकतीर्थं येन । यत्तीर्थं भवति तत्तीर्थं यात्रिकाणां पृथ्वीतलवर्तिनां कतिपयानां किल दुरितस्य शरीरमलस्य च प्रक्षालनकारणं भवति इदं त्वन्महानदस्योत्तमतीर्थं त्रिभुव नवर्तिनां भव्यजनानां तीर्थयात्रिकाणां दुरितस्य पापकर्मण: प्रक्षालने स्फेटने एकमद्वितीयं कारणं ॥ २३ ॥ ननु तीर्थ: प्रतिदिनं वहत्प्रवाहो भवति स चात्र न भविष्यतीत्याहलोकालोकसुतत्वप्रत्यवबोधनसमर्थ दिव्यज्ञान प्रत्यवहृत्प्रवाहं व्रतशीला मलविशालकूल द्वितयम् ॥ २४ ॥ टीका-लोकालोकेत्यादि । लोकश्च अलोकश्च तयोः शोभनं तत्त्वं स्वरूपं शोभनानि वो तत्त्वानि जीवादीनि तस्य तेषां वा प्रति समन्तात् प्रत्येकं वा अवबोधनं परिच्छित्तिः तत्र समर्थानि च तानि दिव्यज्ञानानि च केवलज्ञानानि मत्यादिसम्यग्ज्ञानानि वा तान्येव प्रत्यहं प्रतिदिनं वहत्प्रवाहो यत्र । तर्हि कूलद्वयं तीर्थे भवति तदत्र न भविष्यतीत्याह व्रतशीलामलविशाल कूलद्वतयं -- व्रतानि पंच शीलानि अष्टादशसहस्रसंख्यानि तान्येव मलं निर्दोषं विशालं विस्तीर्णं कूलद्वितयं तटद्वयं यस्य ॥ २४ ॥ ननु तीर्थं राजहंसैर्मनोज्ञघोषण सिकतासमूहेन च शोभां बिभर्ति न चेदं तथा भविष्यतीत्याह शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजित मसकृत् । स्वाध्याय मंद्रघोषं नानागुण समिति गुप्तिसिकता सुभगम् ॥ २५ ॥ For Private And Personal Use Only टीका - शुक्लध्यानेत्यादि - शुक्लध्यानान्येव स्तिमितं स्थिरं यथाभवत्येवं स्थिता राजन्तः शोभमानाः राजहंसा गणधरदेवादयस्तैः राजितं शोभितं । असकृत् सर्वदा । स्वाध्यायमंद्रघोषं शोभनो लाभपूजाख्यातिवर्जितः श्रध्यायः पाठः स्वाध्यायः स एव मंद्रो मनोज्ञो घोषो नादो यत्र । नानागुणाश्चतुरशीतिलक्षगुणास्ते च समितयश्च पंच गुप्तयश्च तिस्रः ता एव सिकतास्ताभिः सुभगं मनोज्ञम् || २५ ||

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358