Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२८४
www.kobatirth.org
क्रिया-कलापे-
Acharya Shri Kailassagarsuri Gyanmandir
1
त्वात् तेषां तिरीटानि त्रिशिखरमुकुटानि तेषां अग्राणि तत्र मरणयः । यदि वा अग्राः प्रधानभूताः ते च ते मरणयश्च तेषां छाया दीप्तयः ताभिरभिषेचनं स्नपनं । कैः ? क्रमैरेव चरणैरेव । सर्वदा ते तत्पादेषु प्रणतो तमांगा इत्यर्थः । किमर्थं वंदे ? सिद्धिलब्धये मुक्तिप्राप्तये ॥ २१ ॥ इतीत्यादिना स्तुतेः स्तोता फलं प्रार्थयतेइति स्तुतिपथातीतश्रीभृतामहतां मम । चैत्यानामस्तु संकीर्तिः सर्वास्रवनिरोधनी ।। २२ ।।
टीका - इत्येवमुक्तप्रकारेण यासौ संकीर्तिः संकीर्तनं स्तुतिः । केषां ? चैत्यानां । केषां संबंधिनां चैत्यानां ? अर्हतां । किंविशिष्टानां १ स्तुतिपथाततश्रीभृतां स्तुतेः पंथा मार्गः तमतीता सा चासौ श्री इन्द्रादिभिरपि या स्तोतुमशक्या अंतरंगा बहिरंगा च श्रीः तां बिभ्रति ये तेषां संकीर्तिः । मम सर्वावरोधिनी अस्तु मुक्तिप्रदा भवत्वित्यर्थः ॥ २२ ॥
स्कंदछन्दः अर्हन्महानदस्य त्रिभुवनभव्यजन तीर्थयात्रिकदुरितप्रक्षालनैककारणमतिलौकिक कुहकतीर्थमुत्तमतीर्थम् ॥ २३ ॥
टीका-- अर्हन्महानदस्येत्यादि । उत्तमतीर्थं दुरितं व्यपहरतु इति संबंधः । कस्य तीर्थं ? श्रर्हन्महानदस्य- महांश्चासौ नदश्च महानदः अर्हन्नेव महानदोऽर्हन्महानदः तस्य । पूर्वप्रवृत्तसरित्प्रवाहविपरीतप्रवाहो हि नदो भवति अपि पूर्वप्रवृत्तसंसार सरित्प्रवाहविपरीत प्रवाह त्वान्नद इत्युच्यते । भगवता च नदेन तुल्योऽन्यो नदो न संभवति ततो विशिष्टगुणोपेतत्वादिति महानद इत्युच्यते । तदेवास्य ततो विशिष्टगुणोपेतत्वं तत्तीर्थस्येतरतीर्थाद्विशिष्टत्वप्रदर्शनद्वारेण दर्शयति उत्तमतीर्थतीर्यते संसारसरिथेन तत्तीर्थं द्वादशांगचतुर्दशपूर्वी गलक्षणं भगवतो मर्त, उत्तममसाधारणं तच्च तत्तीर्थं च । कथमस्योत्तमत्वमिति चेत् अतिलौकिककुहकतीर्थं यतः, लोके भवं लौकिकं आश्चर्य प्रधानं दंभप्रधानं
For Private And Personal Use Only

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358