Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra २३२ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir यदिदमित्यादिना स्तोता स्तुतेः फलं प्रार्थयतेयदिदं मम सिद्धभक्तिनीतं सुकृतं दुष्कृतवर्त्मरोधि तेन । पटुना जिनधर्म एव भक्तिर्भवताज्जन्मनि जन्मनि स्थिरा मे || १५ || टीका - यत्सुकृतं पुण्यं सिद्धभक्तिनीतमिदं सिद्धानां जगत्त्रये प्रसिद्धानां अर्हत्प्रतिबिंबानां भक्तिस्तस्या नीतं प्रापितं उपढौकितं मम । कथंभूतं ? दुष्कृतवर्त्मरोधि दुष्कृतं पापं तस्य वर्त्मा मार्गोऽप्रशस्तमनोवाक्कायलक्षणः तद्रुपद्धीत्येवंशीलं । तेन सुकृतेन । पटुना समर्थेन । भक्तिः । स्थिरा अविचला । मे जिनधर्म एव भवताद्भवतु । कदा ? जन्मनि जन्मनि भवे भवे ||१५|| चतुर्णिकायामरसम्बन्धित्वेन तिर्यग्लोकसंबंधित्वेन च जिनचैत्यस्वनार्थं अर्हतामित्याग्राह अर्हतां सर्वभावानां दर्शनज्ञानसंपदाम् । कीर्तयिष्यामि चैत्यानि यथाबुद्धि विशुद्धये ॥ १६ ॥ टीका - कीर्तयिष्यामि स्तोध्ये | कानि ? चैत्यानि प्रतिबिंबानि । केषां ? अर्हतां । किंविशिष्टानां ? सर्वभावानां सर्वे निःशेषा भावाः पदार्थाः विषयो येषां । अथवा सर्वः परिपूर्णो भावश्चारित्रपरिणामः परमौदासीन्यलक्षणः येषां । पुनरपि कथंभूतानां ? दर्शनज्ञानसंपदां दर्शनज्ञानयोः क्षायिकरूपयोः संपद्येषां तयोर्वा सतोः संपत्समवसर णादिविभूतिर्येषां । कथं तानि कीर्तयिष्यामि ? यथाबुद्धि स्वमतिविभवानतिक्रमेण | किमर्थं ? विशुद्धये कर्ममलप्रक्षालनाय ।। १६ ।। श्रीमद्भावनवासस्थाः स्वयंभासुरमूर्तयः । वंदिता नो विधेयासुः प्रतिमाः परमां गतिम् ॥ १७॥ टीका - श्रीमदित्यादि । विधेयासुः क्रियासुः । काः ? प्रतिमाः । कां ? परमां गतिं मुक्तिं । नोऽस्माकं । किंविशिष्टाः ? वंदिताः सत्यः । पुनरपि किविशिष्टाः ? श्रीमद्भावनवासस्थाः भवनेषु भवा भावनाः देवाः तेषां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358