Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
एव दोषत्वात् प्रक्षीणमोहे च भगवति मोहविशेषात्मिकाया लज्जाया असंभवाच । पुनरपि कथंभूतं ? निरायुधसुनिर्भयं-आयुधं प्रहरणं तस्मान्निष्क्रान्तं तद्वा निष्क्रान्तं यस्मात् तन्निरायुधं, इत्थंभूतमपि सुनिर्भयं भयानिष्क्रान्तं भयं वा निष्क्रान्तं यस्मानिर्भयं सुष्ठु निर्भयं सुनिर्भयं । कुतः ? विगतहिंस्यहिंसाक्रमात् हिंस्यश्च हिंसा च तयोः क्रमोऽनुपरिपाटी विशेषेण गतो नष्टः स चासौ हिंस्यहिंसाक्रमश्ववध्यवधकक्रमः। यदि हि भगवता कस्यचित् हिंस्यस्य हिंसा विधीयते तदा तेनापि भगवतः सा विधीयते इति हिंस्यहिंसाक्रमः स्यान्न च भगवता कस्यचित्सा विधीयते परमकामणि कत्वात् । पुनरपि किंविशिष्टं तव रूपं ? निरामिषसुतृप्तिमत्--आमिषादाहारान्निष्क्रान्तं निरामिषं तदित्थंभूतमपि सुतृप्तिमत् शोभना इतरप्राणितृप्तिभ्यो विलक्षणा कवलाहाररहिता तृप्तिः सुतृप्तिः सा विद्यते यत्र तत्तद्वत् । कुतः ? विविधवेदनानां क्षयात्--विविधा नानाप्रकाराः सुत्पिपासादिजनिता वेदनाः पीडास्तासां क्षयादभावात् ॥ ३२ ॥ मितस्थितनखांगजं गतरजोमलस्पर्शनं
नवांबुरुहचंदनप्रतिमदिव्यगंधोदयम् । रवीन्दुकुलिशादिदिव्यबहुलक्षणालंकृतं
दिवाकरसहस्रभासुरमपीक्षणानां प्रियम् ॥३३॥ टीका-मितस्थितेत्यादि । अंग शरीरं तत्र जाता अंगजाः केशार, मिताः परिमिताः वृद्धिरहिताः नखा अंगजाश्च यत्र । यत्समये हि केवलज्ञानं उत्पन्न भगवतस्तत्समये यत्परिमाणा नखाः केशाश्च अग्रेऽपि तत्परिमाणा एव तिष्ठन्ति न पुनर्बद्धन्ते। गतरजोमलस्पर्शनं--रजः पांसुः तदेव मलं तेन स्पर्शनं संबंधो गतं नष्टं रजोमलस्पर्शनं यत्र । नवाम्बुरुहचंदनप्रतिमदिव्यगंधोदयं-नवं प्रत्ययं विकसितं तच्च तदंबुरुहं च अंबु पानीयं तत्र रोहति प्रादुर्भवति इत्यबुरुहं कमलं तच्च चंदनं च ताभ्यां प्रतिमः सदृशः दिव्योऽन्यजनशरीरासंभवी यो गंधस्तस्योदयः प्रादुर्भावो
For Private And Personal Use Only

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358