SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्ति-भक्तिः। शान्ति-भक्ति। शांतिजिन शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं । अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तममंबुजनेत्रम् ॥१॥ टीका-शांतिजिनमित्यादि । नौमि । कं ? शांतिजिनं । कथंभूतं ? १ शशिनिर्मलवक्त्रं । शशी पूर्णिमाचंद्रः तद्वन्निर्मलं वा मुखं यस्य । शीलगुणवतसंयमपात्रं-शीलानि च गुणाश्च व्रतानि च संयमश्च तेषां पात्रं भाजनं । अष्टशतार्चितलक्षणगावं-अष्टभिरधिकेन शतेन परिमितानि अर्चितानि पूज्यानि लक्षणानि गात्रे यस्य । जिनोत्तम देशजिनेभ्य उत्कृष्ट । अंबुजनेत्रं पद्मपत्रविशालाक्षं ॥१॥ गृहस्थावस्थायां यत्यवस्थायां च कीदृशगुणसंपन्न तमेत्याहपंचममीप्सितचक्रधराणां पूजितमिन्द्रनरेंद्रगणैश्च । शान्तिकरं गणशांतिमभीप्सुः षोडशतीर्थकर प्रणमामि ॥२॥ टीका-पंचममित्यादि-ईप्सितचक्रधराणां अभिमतद्वादशचक्रवर्तिनां मध्ये गृहस्थावस्थायां पंचमं चक्रवर्तिनम् शान्तिजिनं प्रणमामि । यत्यवस्थायां तु षोडशतीर्थकरं। कथंभूतं ? पूजितं । कैः ? इंद्रनरेन्द्रगणैश्च इंद्रचक्रवर्तिसंघातैरपि । तथा शान्तिकरं अनन्तसुखप्राप्तिजनकं । तथा अभीप्सु प्राप्तुमिच्छ शान्तिजिनं । कां ? गणशान्ति-गणस्य चतुर्विधसंघस्य संबंधिनी शान्ति संसारोपरति रागायुपशमं वा । यदि वा अहं तां अभीप्सुः शान्तिजिनं प्रण, मामि ॥२॥ अष्टमहाप्रातिहाथैः शोभमानत्वं तस्य स्तुवन्नाहदिव्यतरुः सुरपुष्पसुवृष्टिदुन्दुमिरासनयोजनघोषौ । आतपवारणचामरयुग्मे यस्य विभाति च मंडलतेजः ॥३॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy