SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir तं जगदचितशान्ति जिनेन्द्रं शांतिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्ति मामरं पठते परमां च ॥४॥ टीका - दिव्येत्यादि । यस्य शांतिजिनस्य । विभाति शोभते । कोसौ ? दिव्यतरुः अशोकवृक्षः । सुरपुष्पसुवृष्टिः सुरैः कृता पुष्पाणां शोभना वृष्टिः । तथा दुदुभिः । श्रसनयोजनघोषौ -- आसनं सिंहासनं योजनघोषो योजनपरिमाणो दिव्यध्वनिः । श्रातपवारणचामरयुग्मे आतपवारणं छत्रत्रयं चामरयुग्मं चतुःषष्ठिचामरसंभवेप्युभयपार्श्ववर्तिचामरेंद्रद्रयजात्यपेक्षया चामरयुग्माभिधानं । मंडलतेजः भामंडलप्रकाशः । तमित्थंभूतं शांति जिनेन्द्रं । जगदर्चितं त्रिभुवनपूजितं । शांतिकरं शिरसा प्रणमामि । स च प्रणतः सन् यच्छतु । कां ? शान्ति अभ्युदयं । कस्मै ? सर्वगणाय । तु पुनः । मह्यं च शांतिं परमां उत्कृष्टां परमनिर्वाणलक्षणां । अरं अत्यर्थेन प्रयच्छतु । किंविष्टिाय ? पठते शांति जिनस्तुतिं कुर्वते ॥ ३-४ ॥ इदानीं चतुर्विंशतितीर्थंकरेभ्यः शांतिमर्थयमानः स्तोता प्राहयेभ्यर्चिता मुकुटकुंडलहाररत्नैः शक्रादिभिः सुरगणैः स्तुतपदपद्माः । ते मे जिना: प्रवरवंश जगत्प्रदीपा - स्तीर्थंकराः सततशांतिकरा भवतु ||५|| टीका-ये इत्यादि । ते जनाः सततं मे शांतिकराः भवंतु । कथंभूताः ? ये अभ्यर्चिचताः पूजिता: जन्माभिषेकादौ । कैः ? शक्रादिभिः सुरगणैः । कैः कृत्वा ? मुकुटकु डलहाररत्नैः न केवलं तैस्तेऽभ्यञ्चिताः अपि तु स्तुतपादपद्मा: विशिष्टस्तोत्रैः स्तुतौ पादावेव पद्मौ येषां । पुनरपि किंविशिष्टाः ? प्रवरवंशजगत्प्रदीपा - प्रवरवंशाश्च ते जगत्प्रदीपाश्च । भूवाऽपि कथंभताः तीर्थंकरा: आगमप्रवर्तकाः । तीर्थाधिपाः इति For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy