________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान्ति-भक्तिः।
२०३
पाठे तु तोमागमं अधिपांति रक्षति शब्दतोर्थतश्चोच्छिद्यमानं उद्धरंति इत्यर्थः ॥५॥
संपूजकानां प्रतिपालकानां यतींद्रसामान्यतपोधनानां । देशस्य राष्ट्रस्य पुरस्य राज्ञा करोतु शांति भगवाजिनेंद्रः ॥६॥
टीका-संपूजकानामित्यादि । शांतिं करोतु । कोऽसौ ? जिनेन्द्रः। कथंभूतः ? भगवान् पूज्यो वा । केषां ? संपूजकानां जिनेन्द्रपूजाविधायकानां । प्रतिपालकानां चैत्यचैत्यालयधर्मादिरचकाणी । यतींद्रसामान्यतपोधनानां यतीन्द्राणमाचार्योपाध्यायसाधूना, सामान्यतपो. धनानां शैक्षकादीनां । तथा देशस्य विषयस्य । राष्ट्रस्य विषयैकदेशस्य । पुरस्य । राज्ञो देशादीनां स्वामिनः ॥६॥
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपाल: ___काले काले च सम्यग्वर्षतु मघवा व्याधयो यान्तु नाशम् । दुर्भिक्षं चोरिमारी क्षणमपि जगतां मा स्म भूज्जीवलोके
जैनेन्द्र धर्मचक्रं प्रभवतु सततं सर्वसौख्यप्रदायि ॥७॥
टीका-क्षेममित्यादि । दोमं कुशलं प्रभवतु । कासां ? सर्वप्रजानां तथा बलवान भूमिपालो धार्मिकः प्रभवतु । काले काले उचितसमये मघवा च इंद्रो वर्षतु । इन्द्रो वै वर्षतीति अभिधानात् । व्याधयो रोगा यान्तु नाशं । दुर्भिक्षो दुष्कालः । चोरीश्च, मारिश्च अपरिपूर्णकाले शस्त्रादिभिरायुषस्त्रुटिः । जगतां क्षणमपि मा स्म भूत् मैवाभूत । जैनेन्द्र जिनेन्द्रस्येदं धर्मचक्र उत्तमक्षमादिधर्मसंघातः प्रभवतु अस्खलितरूपं प्रवर्ततां । सततं सर्वदा । क ? जीवलोके । किंविशिष्ट ? सर्पसौख्यप्रदायि सर्वेषां सौख्यं प्रददाति इत्येवंशीलं अथवा सर्व परिपूर्ण तब तत्सौख्यं च अनंतसौख्यं तत्प्रदायि ॥७॥
For Private And Personal Use Only