SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे सस्य अतिभारश्रमं अतिगाढलशं । यावन्नोदयते कोऽसौ श्रीभा. स्करः । किंविशिष्टः ? प्रभापरिकरः किरणनिकरपरिकरितः । किं कुर्वन् ? भासयन् स्वपरस्वरूपमुद्योतयन् । एवं हे भगवन् तावत्पापं अंहश्च वहति । प्रायेण अतिशयेन । कोऽसौ ? एष जीवनिकायः संसारिजीवसंघातः । यावत्प्रसादोदयः प्रसादप्रादुर्भावः न स्यात् । कस्य संबन्धी ? त्वचरणद्वयस्य । तस्मिन्प्रसादोदये सति निःशेषपापप्रक्षयात् मुक्त्युपपत्तेः एतदेवाहशान्ति शान्तिजिनेन्द्र शांतमनसस्त्वत्पादपद्माश्रया संप्राप्ताः पृथिवीतलेषु बहवः शान्त्यार्थिनः प्राणिनः । कारुण्यान्मम भाक्तिकस्य च विभो दृष्टिं प्रसन्ना कुरु त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टकं भक्तितः ॥८॥ टीका-शान्तिमित्यादि । हे शांतिजिनेन्द्र ! शांतिं संप्राप्ताः । के ते ? बहवः प्राणिनः । कथंभूताः ? शान्त्यार्थिनः शांत्या परमकल्याणेन संसारोपरमेण वा अर्थिनः प्रयोजनवंतः। पुनरपि किंविशिष्टाः ? शांतमनसः रागाद्यनुपहतचित्ताः । कस्मात्ते संप्राप्ताः ? त्वत्पादपद्माश्रयात् । क? पृथिवीतलेषु न केवलं स्वर्गादौ । यत एवं ततः हे विभो । भाक्तिकस्य चेति चशब्दोऽप्यर्थे ममेत्यस्यानंतरं द्रष्टव्यः । भक्त्याचरतीति भाक्तिकस्तस्य ममापि कारुण्यावृष्टिं प्रसन्नां अनुग्रहपरां कुरु । अथवा मम दृष्टिं प्रसन्नां तिमिरदोषरहितां निर्मलां कुरु । कथंभूतस्य मम ? देवतैव दैवतं त्वत्पादद्वयं दैवत यस्य। किं कुर्वतोमम दृष्टिं प्रसन्नांकुरु? भक्तितो गदतो वाणस्य । किं तत् ? शांत्यष्टकं अष्ट अवयवा अस्येत्यष्टकं 'संख्यायाः कोतिशत' इति कः । शांत्यर्थं अष्टकं शांतिनाथस्य वास्तुतिरूपं अष्टकं शांत्यष्टकम् ॥ ८॥ - - For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy