SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्त्यष्टकम् । २६६ RAM wwwwwwwwmumanAmARAARAMIN रोगाः । कस्मात् ? त्वत्पादद्वयपूतगीतरवतः त्वत्पादद्वये पूतः पवित्रः स चासौ गोतरवश्व स्तुतिशब्दः। अत्रैवार्थे दृष्टांतमाह दर्पत्यादि-वन्या बारएयाः कुञ्जरा यथा द्रवंति । कस्मात् ? दर्पाध्मातमृगेन्द्रभीमनिनदात दर्पण प्राध्मात उल्लसितो मोदितो वा स चासौ मृगेन्द्रः सिंहः तस्य भीमनिनदात् रौद्रशब्दात् ॥ ५ ॥ तथा त्वत्पादस्तुतेर्मोक्षसौख्यावाप्तिरपि भवतीत्याहदिव्यस्त्रीनयनाभिराम विपुलश्रीमेरुचूडामणे भास्वद्वालदिवाकरद्युतिहरप्राणीष्टभामंडल । अव्याबाधमचिंत्यसारमतुलं त्यक्तोपमं शाश्वतम् सौख्यं त्वच्चरणारविंदयुगलस्तुत्यैव संप्राप्यते ॥६॥ टीका-दिव्येत्यादि । दिव्यस्त्रीनयनाभिराम भगवन् । तथा विपुलश्रीमेरुचूडामणे । अथवा ! दिव्यस्त्री नयनभिरामश्चासौ विपुल. श्रीमेरुश्च तस्य चूडामणे । भास्वदित्यादि-भास्वदीप्रः स चासौ बाल. दिवाकरश्च तस्य द्युतिहरं ा त्युनुकारकं प्राणिनामिष्ट भामंडलं यस्य इत्थंभूत भगवन् । सौख्यं त्वच्चरणारविंदयुगलस्तुत्यैव संप्राप्यते । कथंभूतं सौख्यं ? अव्याबाधं । तथा अचिन्त्यसारं अचिन्त्यः सारो माहात्म्य उत्कृष्टत्वं वा यस्य । अतुलं अनन्तं न विद्यते तुला इयत्तावधारणं यस्य । त्यक्तोपमं अनुपमं । शाश्वतं नित्यं ॥६॥ एवंविधं च सौख्यं निखिलपापापायात्प्राप्यते स च भगवत्पा दप्रसादाद्भवति नान्यथेत्याहयावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयं स्तावद्धारयतीह पंकजवन निद्रातिभारश्रमम् । यावत्वच्चरणद्वयस्य भगवन्न स्यात्प्रसादोदय स्तावज्जीवनिकाय एष वहति प्रायेण पापं महत् ॥७॥ टीका-यावदित्यादि । पंकजवनं पद्मसंघातः । इह जगति । तावत्कालं धारयति वहति । के ? निद्रातिभारश्रमं निदाया अविका. For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy