________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
क्रिया-कलापे
marrinaram
त्वत्स्तुतिरेव च प्राणिनां अजरामरत्वहेतुरित्याहत्रैलोक्येश्वरभंगलब्धविजयादत्यंतरौद्रात्मका
नानाजन्मशतांतरेषु पुरतो जीवस्य संसारिणः । को वा प्रस्खलतीह केन विधिना कालोनदावानला
नस्याच्चेत्तव पादपद्मयुगलस्तुत्यापगा वारणम् ॥४॥ टीका-त्रैलोक्येत्यादि । को वा प्रस्खलति क उध्रियते । कस्मात्? कालोपदावानलात् काल एव उग्रः प्रचंडो दावानलः तस्मात् । कथंभू. तात् ? अत्यंतरौद्रात्मकात्-अत्यंतरौद्रस्वरूपात् । पुनरपि किंविशिष्टादित्याह त्रैलोक्येत्यादि-त्रैलोकेश्वरा धरणेंद्रनरेंद्रसुरेन्द्राः तेषां भंगो विनाशः तस्माल्लब्धो विजयो येन तस्मात् । क लब्धतद्विजयात् ? नानाजन्मशतांतरेषु नानाप्रकाराणि च तानि जन्मशतांतराणि च तेषु । एवंविधाकालोपदावानलात् । इह जगति । को वा न कोपि । केन विधिना केन प्रकारेण । न केनापि प्रस्खलति । चेत् यदि कालोपदावानलात्पुरतः संसारिणो जीवस्य वारणं निवारकं न स्यात् । किं तत् ? तव पादपद्मयुगलस्तुतिरेव आपगा नदी ॥४॥
तथा त्वत्पादस्तुतेर्यमकारणभूता रोगा नश्यंतीत्याहलोकालोकनिरंतरप्रविततज्ञानैकमर्ते विभो
नानारत्नपिनद्धदंडरुचिरश्वेतातपत्रत्रय । त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामया
दर्पाध्मातमृगेन्द्रभीमनिनदाद्वन्या यथा कुञ्जराः ॥५॥ टीका-लोकेत्यादि । लोकश्चालोकश्च तयोर्निरंतरं प्रविततं ग्राहकत्वेन प्रसृतं तच्च तज्ज्ञानं च तदेव एका अद्वितीया मूर्तिः स्वरूपं यस्य तस्य संबोधनं । तथा विभो इंद्रादीनां स्वामिन् । नानेत्यादि-नानारलानि पिनद्धानि खचितानि यत्र स चासौ दंडश्च तेन रुचिरश्वेतातपत्रत्रयं यस्य । इत्थंभूत भगवान । शीघ्रं द्रवंति धावन्ति । के ते ? आमयाः
For Private And Personal Use Only