SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शान्त्यष्टकम् । Acharya Shri Kailassagarsuri Gyanmandir २६७ टीका - क्रुद्ध ेत्यादि । शीः सर्पदंष्ट्रा आश्यां विषं यस्यासावाशीविषः क्रुद्धश्चासावाशीविषश्च तेन दृष्टे भक्षिते दुर्जयश्चासौ विषज्वालावलीविक्रमश्च विक्रमः प्रसरः, सामर्थ्यं वा स यथा शान्ति प्रकृष्टोपशमं याति । कैः कृत्वा ? विद्याभेषजमंत्र तोयहवनैः विद्या च मुद्रामंडलावर्तनं भेषजं चौषधं मंत्रश्च तोयं च हवनं होमश्च । तद्वत्तथा । सहसा झटिति । शाम्यंति । के ते ? विघ्नाः । न केवलं विघ्नाः । कायविनायकाच कायं विशेषेण नयंति अपनयंतीति कार्याविनायकाः रागाः । केषां ? नृणां । कथंभूतानां इत्याह ते इत्यादि - ते तव चरणावेव अरुणं रक्तं अम्बुजयुगं तत्स्तोत्रोन्मुखानां स्तवनाभिमुखानां । अहो लोकाः विस्मयः आश्चर्यमेतत् । विषमात्रमुक्तप्रकारेण प्रयासेनोपशमं याति विनादयः पुनर्भवत्पादद्वयस्तवनमात्रेणेति ॥ २ ॥ तथा भवत्प्रणामात्प्राणिनां किं भवन्तीत्याह - संतप्तोत्तमकांचनक्षितिधर श्रीस्पर्द्धिगौरद्युते पुंसां त्वच्चरणप्रणामकरणात्पीडाः प्रयान्ति क्षयं । उद्यद्भास्करविस्फुरत्करशतव्याघात निष्कासिता नानादे हि विलोचनद्युतिहरा शीघ्रं यथा शर्वरी ॥३॥ टीका - संतप्तेत्यादि । संतप्त च तदुत्तमकांचनं च तेन सदृशः क्षितिधरो मेरुस्तस्य । अथवा संतप्तोत्तमकांचनं च क्षितिधरश्च तयोः श्रीः शाभा तया या स्पर्द्धिनी सहशी गौरी द्य तिर्यस्य तस्य संबोधनं संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्विगौरद्युते भगवन् ! त्वच्चरणप्रणामकरणात् पुस पीडाः प्रयांति क्षयं । अत्रैवार्थे दृष्टांतमाह उद्यदित्यादि । यथा शर्वरी रात्रिः शीघ्रं क्षयं प्रयाति । किंविशिष्टा ? नानादेहिविलोचन For Private And Personal Use Only तिहरा अनेकप्राणिचक्षुः प्रकाशप्रतिबंधिका । पुनरपि कथंभूतेत्याह उद्यदित्यादि -- उद्यन्नुदयं गच्छञ्चासौ भास्करश्च तस्य विस्फुरंतश्च ते कराश्च तेषां शतानि तैव्र्व्याघातो हृढप्रहारः तेन निष्कासिता निस्सारिता॥३॥
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy