SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ क्रिया-कलापे-- wwwwwwanmannaahraarwwwwwwwwwwwww N शान्त्यष्टकम् श्रीपादपूज्यस्वामी संजातचक्षुस्तिमिरादिव्याधिस्तद्विनाशार्थ श्रीशातिनाथस्य न स्नेहादित्यादिस्तुतिमाहन स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजा हेतुस्तत्र विचित्रदुःखनिचयः संसारघोरार्णवः । अत्यंतस्फुरदुग्ररश्मिनिकरव्याकीर्णभूमंडलो गृष्मः कारयतीन्दुपादसलिलच्छायानुरागं रविः ॥१॥ टीका-हे भगवन् ! ते पादद्वयं शरणं स्नेहात्प्रीतिवशान्न प्रजाः प्रयान्ति गच्छन्ति । किं तत्र तर्हि निमित्तमित्याह हेतुरित्यादि-तत्र पादद्वयशरणगमने हेतुर्निमित्तं संसारघोरार्णवः संसाररौद्रसमुद्रः । कथंभूतः ? विचित्रदुःखनिचयः विचित्राणि च तानि दुःखानि च तेषां निचयः संघातो यत्र । अत्रैवार्थे दृष्टांतमाह अत्यंतेत्यादि । रविः कारयति हेतुकर्ता भवति । कं ? इंदुपादसलिलच्छायानुराग इंदुपादाश्चंद्रकिरणाः सलिलं च छाया च तत्र अनुरागं प्रोति । किविशिष्टः रविः ? प्रैष्मः प्रोप्मे भवः । पुनरपि कथंभूत इत्याह अत्यन्ते. त्यादि-अत्यन्तं स्फुरन्तो दीप्राः ते च ते उग्ररश्मयश्च तेषां निकरस्तेन व्याकीर्णं व्याप्तं भूमंडलं येन ॥१॥ भवत्पादस्तुतेरैहिकमेव फलं दर्शयन्नाहऋद्धाशीविषदष्टदुर्जयविषज्वालावलीविक्रमो विद्याभेषजमंत्रतोयहवनैर्याति प्रशांतिं यथा । तद्वत्ते चरणारुणांबुजयुगस्तोत्रोन्मुखानां नृणां विघ्नाः कायविनायकाश्च सहसा शाम्यंत्यहो विस्मयः ॥२॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy