________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशतितीर्थंकर-भक्तिः ।
२६५
सकललोकप्रसिद्धं गोत्रमिक्ष्वाकुलक्षणं यस्य तं तथा खचरगणनुतं - आकाशे चरन्ति गच्छन्तीति खचरा देवा विद्याधराश्च तेषां गणाः संघातास्तैर्नृतं स्तुतं । तथा सुत्रतं शरणमहमितः - शोभनानि व्रतानि यस्य यस्माद्वा भव्यानामसौ सुव्रतस्तं । कथंभूतं ? सौख्यराशिसौख्यानां राशिः संघातो यस्मिन् यस्माद्वा भव्यानामसौ सौख्यराशिस्तं, अनन्त सौख्य मय स्तत्सौख्य सम्पादको वेत्यर्थः । तथा नमीन्द्रं - नमिनाथं शरणमहमितः । किंविशिष्टं ? देवेन्द्रार्य- देवेन्द्रैरर्च्छत इति देवेन्द्रार्यस्तं । तथा नेमिचंद्रं शरणमहमितः - चन्द्र इव चंद्रो नेमिश्चासौ चन्द्रश्च यथा चन्द्रः सूर्यकरसन्तप्तानां सन्तापापनोदकः तमोनिकरनिराकारकः सन्मार्गे प्रकाशकश्चेति, अतएव भवति -- भवस्य संसारस्यान्तो विनाशो यस्मिन् यस्माद्वा भव्यानामसौ भवान्सस्तं, तथा हरिकुलतिलकं - हरेर्विष्णोः कुलं यादववंशस्तस्य तिलकं मण्डनीभूतं । तथा पार्श्वनाथं शरणमहमितः । कथंभूतं ? नागेन्द्रवन्द्य', धरणेन्द्रवन्यं, अथवा नागाश्च नागकुमारा इन्द्राश्च तैर्वन्द्य । तथा वर्धमानं च नागेन्द्रवन्द्य ं शरणमहमितः । कया ? भक्त्या - गुणानुरागविशेषेण । भक्त्येत्येतदन्त्यदीपकमीडे स्तौमि इत इत्येतेषां प्रत्येकमभिसम्बन्धनीयम् । अञ्चलिका
इच्छामि भंते ! चउवीस तित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं । पंचमहाकल्लाण संपण्णाणं, अट्टमहापाडिहेरसहियाण, चउतीसअतिसय विसेस संजुत्ताणं, बत्तीसदेविंदमणिमउडमत्थयमहियाणं, बलदेववासुदेवचकहररिसिणिजह अणगारो. वगूढाणं, थुइसयस हस्सणिलयाणं, उसहाइवीर पछिम मंगलमहापुरिसाणं णिच्चकाल अचेमि, पुज्जेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बाहिलाहो, सुगइगमण, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झ ।
Y
For Private And Personal Use Only
-