________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
क्रियाकलापे
इन्द्रियाश्वा येनासौ दान्तेन्द्रियाश्वस्तं । तथा विमलं स्तौमि विगतो विनष्टो मलो द्रव्यभावरूपः कलक्को यस्यासौ विमलस्तं । कथंभूतं ? ऋषिपति---सप्तर्द्धिसमन्विता ऋषयो गणधरदेवादयस्तेषां पतिं स्वामिनं । तथा सैंहसेन्यं--अनन्ततीर्थकरदेवमीडे सिंहसेनो राजा तस्यापत्यं “सेनान्तलक्ष्मणकारिभ्य इञ्च धोरिण्य" ध्यारेयुः (?)। तथा धर्म--धर्मतीर्थकरदेवं स्तौभि । किंविशिष्टं ? सद्धर्मकेतु-सद्धर्मः सम्यकचारित्रं उत्तमक्षमादि केतुश्चिह्न यस्यासौ सद्धर्मकेतुस्तस्य वा केतुआपकः प्रकाशस्तं, तथा मुनीन्द्र--गणधरादिमुनिस्वामिनं, अथवा मुनिः प्रत्यक्षवेदी स चासौ इन्द्रश्च गणधरादीनां स्वामी । तथा शान्ति स्तौमि । कथंभूतं ? शमदमनिलयं-शमः परमोपशमो दम इन्द्रियजयस्तयो. निलयमाश्रयं, तथा शरण्यं--कारातिप्रभवचातुर्गतिकदुःखभयत्रस्ताना शरणे तदुःखञासपरिरक्षणे साधुः तम् । कुंथु सिद्धालयस्थं श्रमणपतिमरं त्यक्तभोगेषु चक्रं
माल्लि विख्यातगोत्रं खवरगणनुतं सुव्रतं सौख्यराशिम् । देवेन्द्राय नमीशं हरिकुलतिलक नेमिचंद्रं भवान्तं
पार्थ नागेन्द्रवन्धं शरणमहमितो वर्द्धमानं च भक्त्या ॥५॥
टीका-कुंथु-कुन्थु तीर्थकरदेवं शरणमहमितः-गतः, संसारार्णवावर्तदुस्सहदुःखभयत्रस्तोऽहं तद्दुःखापनोदार्थं कुथुनाथमाश्रित इत्य. र्थः । किंविशिष्ट ? सिद्धालयस्थं - सिद्धानां परापरसिद्धिस्वरूसंपन्नानां मुक्तात्मनामालयः समवसरणं मोक्षप्रदेशश्च तत्रस्थं, तथा श्रमणपतिगणधरादिपति स्वामिनं । तथा अरं-अरतीर्थकरदेवं शरणमहमितः । कथंभूतं ? त्यक्तभोगेषु चक्रं -भोगा एव इपवो वाणाः प्राणिनां मर्मवेधित्वात्पीडाकरत्वाच्च तेषां चक्र संघातस्तं त्यक्तं येन, अथवा भोगाश्च इषवश्च चक्र च चक्ररत्नं तानि त्यक्तानि येन तं। तथा मल्लिं-मल्लिनाथं शरणमहमितः । किंविशिष्टं ? विख्यातगोत्रं-विशेषेण ख्यातं
१-चशब्दात् “कुर्वादेर्यः" इतो ण्यः इत्यध्याहरेत्
For Private And Personal Use Only