SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतितीर्थकर भक्तिः । कथंभूतं ? देवदेव-देवानामिन्द्रादीनां देवो वन्द्य आराध्यो देवदेवस्तमीडे । तथा सुबुद्धिं-शोभना बुद्धिः केवलज्ञानं यस्यासौ सुबुद्धिः सुमतिस्तमीडे । किंविशिष्टं ? कर्मारिघ्नं-कर्मारातिविनाशकं। तथा वरकमलनिभः पद्मप्रभस्तमीडे । कथंभूतं ? पद्मपुष्पाभिगन्धं--पद्मपुष्पस्येव अभि समन्तात् सर्वत्र शरीरे गन्धो यस्य । तथा सुपार्श्वमीडे--शोभनौ शरीरौ उभयपाश्वौं यस्यासौ सुपार्श्वस्तं । किंविशिष्टं ? क्षान्तं दान्तंक्षान्तं सहिष्णु परमोपशान्तं दान्तं निर्जितेन्द्रियं । तथा चन्द्रनामानं-- चन्द्रप्रभमीडे । कथभूतं ? सकलशशिनिभं--सकलः परिपूर्णः स चासौ शशो च चन्द्ररतेन निभं सकलकलापरिपूर्णत्वेनानन्दहेतुत्वेन धवलत्वेन मार्गप्रकाशकत्वेनार्थोद्योतकत्वेन च सदृशम् । विख्यातं पुष्पदन्तं भवभयमथनं शीतलं लोकनाथं श्रेयांसं शीलकोशं प्रवरनरगुरुं वासुपूज्यं सुपूज्यम् । मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपति सैंहसेन्यं मुनीन्द्र धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शान्ति शरण्यम्॥४॥ टीका--तथा पुष्पदन्तं स्तौमि । किंविशिष्टं ? विख्यातंविशेषेण ख्यातं त्रिभुवने प्रसिद्धं, तथा भवभयमथनं--भवं भयं चातुगतिकदुःखनासस्तस्यात्मनो भव्यानां च सम्बन्धिनो मथनं स्फेटकं । तथा शोतलं स्तौमि । कथंभूतं ? लोकनाथं--त्रिभुवनस्वामिनं । तथा श्रेयांसं स्तौभि । किंविशिष्टं ? शीलकोशं--शीलानी कोशः करंडको निवेशस्थानं शोलानि वा कोशो मांडागारं यस्य तं, तथा प्रवरनरगुरु-- प्रवरनरश्चासौ गुरुश्च प्रवरनराणां वा गण बरचक्रवादीनां गुरुस्तं । तथा वातुपूज्यं स्तोभि । कथंभूतं ? सुपूज्यं--सुष्ठु अतिशयेन पूज्यः शोभनेर्वा इन्द्रादिभिः पूज्यः सुपूज्यस्तं । पुनरपि किंविशिष्टं ? मुक्त --यातिकर्मक्षयात्प्राप्तानन्तवतुष्टयस्वरूपं । तथा दान्तेन्द्रियाश्वं-- इन्द्रियाण्येवाश्वाः स्वविषये शीघ्रप्रवृत्तित्वात् दान्ता वशीकुता For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy