SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ क्रिया-कलापे नियतार्थप्रकाशकं तीर्थकृतां तु तेजो ज्ञानज्योतिमूर्तामूर्तव्यवहितेतरत्रिकालगोचराखिलार्थप्रकाशकमिति । तथा ये साध्विन्द्रसुराप्सरोगणशतैर्गीतप्रणुत्यार्चिताः-साधूनामिन्द्रा गणधरादयोऽथवा साध. वश्च गणधरादयः, इन्द्राश्च सुर श्वाप्सरसश्च साध्विन्द्रसुरा सरसस्तासां गणाः संघातास्तेषां शतानि तैर्गीता उच्चरिता सा चासौ प्रगुतिश्च प्रकृष्टस्तुतिस्तयार्चिता वाक्कुसुमैः पूजिता इत्यर्थः । गीतप्रनृत्यार्चिता इति पाठे गीतनृत्येभ्यः पश्चादर्चिता गोतनृत्यानि पूर्व कृत्या पश्चादर्चिता इत्यर्थः, अत्र साध्वितोन्द्रादीनां विशेषणं साधवः समीचीना भव्यास्ते च ते इन्द्रादयश्च । तानित्थं भूतान देवान्-आराध्यान् , वृषभादिवीरचरमान् भक्त्या नमस्याम्यहम् । सामान्यतः स्तुतानपि तीर्थकरानिदानी विशेषतो निजनिजनामोपेतान् स्तुवन्नाह नाभेयमित्यादिनामेयं देवपूज्यं जिनवरमजितं सर्वलोकप्रदीपं सर्वज्ञं संभवाख्यं मुनिगणवृषभ नंदनं देवदेवम् । कारिघ्नं सुबुद्धिं वरकमलनिभं पद्मपुष्पाभिगंधं क्षान्तं दांतं सुपार्श्व संकलशशिनिभं चंद्रनामानमीडे ॥३॥ टीका--ईडे-स्तुवेऽहं । कं ? नाभेयं--ऋषभनाथं नाभेः कुलकरस्यापत्यं नाभेयस्तं । कथंभूतं ? जिनवरं-देशजिनेभ्यो गणधरादिभ्य उत्कृष्टं । पुनरपि किंविशिष्टं ? देवपूज्यं-देवैरिन्द्रादिभिः पूज्यत इति देवपूज्यस्तं । तथा सर्व-सर्व जानातीति सर्वज्ञस्तं, अत एव सर्वलोकप्रदीपं-त्रैलोक्योद्योतकं । तथा अजितं एतद्विशेषण चतुष्टयविशिष्टमीडे। न जीयतेऽन्तरंगैर्बहिरंगैश्च शत्रुभिरित्यजितस्तं । तथा संभवाख्यं-सं सुखं भवत्यस्माद्भव्यानामिति संभवः सा आख्या नाम यस्यासौ संभवा. ख्यस्तं । किंविशिष्टं ? मुनिगण वृषभं-मुनीनां गण: समुदायस्तस्य वृषभं प्रधानं स्वामिनमित्यर्थः, तमोडे । तथा नन्दनं-अभिनन्दननामानं । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy