SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतितीर्थकर भक्तिः । चतुर्विशक्तितीर्थकर भक्तिः । चवीस तित्थयरे उसाहबीरपच्छिमे वंदे | सच्चे सगणगणहरे सिद्धे सिरसा नमामि ॥ १ ॥ टीका - चउवीसमित्यादि । चडवीसं तित्थयरे - चतुर्विंशतितीर्थ ---- करान् वन्दे । कथंभूतान् ? उसाइवीरपच्छिमे -- वृषभनाथ आदिर्येषां ते वृषभादयः वीरो वर्धमानस्वामी पश्चिमोऽन्त्यो येषां ते वीरपश्चिमाश्च तान् । सव्वे - सर्वान् वन्दे । तथा सगरणगणहरे -- सह गणेन वर्त्तन्त इति सगणास्ते च ते गणधराश्च ते तान् सर्वान् । सिद्धे - सिद्धांश्च शिरसा नमस्यामि नमस्करोमि । २६१ तत्र चतुर्विंशतितीर्थकृतां ये लोक इत्यादिना विशिष्टगुणोपेतत्वेन स्तुतिं कुर्वन्नाह ये लोकेष्टसहस्रलक्षणधरा ज्ञेयार्णवांतर्गता ये सम्यग्भवजाल हेतुमथनाश्चंद्रार्क तेजेाधिकाः । ये साध्विंद्रसुराप्सरोगणशतैर्गीतप्रणुत्या चिंता For Private And Personal Use Only स्तान्देवान्वृषभादि वीरचरमान्भक्त्या नमस्याम्यहम् ॥२॥ टीका - ये - चतुर्विंशतितीर्थकरदेवाः, लोके -- लोकमध्ये, अष्टसहस्रलक्षणधेराः । तथा ज्ञेयार्णवान्तर्गताः - ज्ञेयं लोकालोकलक्षणं तदेवार्णवः समुद्रः सामान्यप्राणिनाशक्यपर्यन्तगमनत्वात् तस्यान्तं पर्यन्तं गताः । तथा ये सम्यग्भवजालहेतुमथनाः - भवानां जालं संघातो भवानां वा कारणभूतं जालं वेष्टनं कर्मबन्धस्तस्य हेतवो मिध्यात्वादयस्तेषां सम्यङ्मथना यथा तेषां पुनराविर्भावो न भवति तथा तद्विध्वंसकारकाः । तथा चन्द्रार्कतेजोधिकाः - चन्द्रार्केभ्यस्तेजसाधिका उत्कृष्टाः, चन्द्रार्कयोर्हि तेजः प्रकाशो मूर्तव्यवहितवर्त्तमान
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy