________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
क्रिया-कलापे
orrrrrrrrrrr
____टीका-धर्मः-चारित्रमुत्तमक्षमादिश्च तत्र चारित्रस्य प्रस्तुतत्वादिह ग्रहणं धर्मश्चारित्रं सर्वसुखाकरः-सर्वसुखानां स्वर्गापवर्गादिसुखानामाकरमुत्पत्तिस्थानं । तथा हितकरः-हितस्य परिणामपथ्यस्य पुण्यस्य जनकः । यत एवंविधो धर्मो तं धर्म बुधाः-परमविवेकसम्पन्ना. स्तीर्थकरादयः, चिन्वते उपचयं नयन्ति मोक्षमार्गप्राप्त्यर्थं पुष्टमनुतिष्ठन्तीत्यर्थः । यतो धर्मेणैव समाप्यते-सम्यक्प्राप्यते शिवसुखं-मोक्षसुखं । तस्मै एवं विधाय धर्माय नमः । धर्मान्नास्त्यपरः सुहृद्भवभृता-सुहृदुपकारको भवभृतां संसारिणां धर्मात्सकाशात्परोऽन्यो नास्ति । इत्थंभूतस्य धर्मस्य मूलं कारणं दया-करुणा निर्दयस्य धर्मलेशम्याप्यसंभवात् । एवंविधे च धर्मे प्रतिदिनमहं चित्तं दधे-धरामि तत्र दत्तावधानो भवामि । त्वयि चित्तं दधानं च मां हे धर्म ! पालय-संसारमहार्णवे पतन्तं रक्ष ॥ ७॥
इदानीं धर्मादीनां मंगलादीनां हेतुतया परममंगलत्वं प्ररूपयन्नाह धम्म इत्यादि
धम्मो मंगलमुक्किडं अहिंसा संयमो तवो। देवा वि तस्स पणमंति जस्स धम्मे सया मणो ८॥
टीका-धर्मः उक्तलक्षणः, मंगलं-मलं पापं गालयति विध्वं. सयति वा मंगलं मंगं वा परमसुखं लाति आदत्त इति मंगल, उक्किट्ठउत्कृष्टमनुपचरित परमं । न केवलं धर्म एव मंगलमपि तु अहिंसा संयमस्तपश्च । न केवलं मलगालनहेतुरेवायमपि तु पूजादिहेतुरपि यतः देवावि तस्स पणमंति जस्स धम्मे सया मणो देवा अपि तस्य प्रणमन्ति यस्य धर्मे सदा मनः ।। ॥
For Private And Personal Use Only