SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरभक्तिः। एव पथिका मोक्षमार्गे प्रस्थित्वात्तेषां खेदः संसारपरिभ्रणक्लेशस्तस्य नोदो विनाशस्तत्र समर्थः । किं कुर्वन् ? दुरितरविजतापं प्रापयन्नन्तभावं-प्रापयन् नयन् अन्तभावं प्रध्वंसरूपतां । के ? दुरितरविज. तापं-दुरितं पापं तदेव रविः प्राणिनां सन्तापकारित्वात्तस्माज्जातो दुरितरविजः स चासौ तापश्च चतुर्गतिदुःखं सन्तापस्तं । इत्थंभूतो यश्चारित्रवृक्षः सोऽस्तु-भवतु, नः-अस्माकं । किमर्थं भवति ? भव. विभवहान्यै- भवे संसारे विविधा नानाप्रकारा भवास्तेषां हान्यै विनाशाय ।। ४-५॥ यतश्चैवंविधोऽसौ चारित्रवृक्षस्तस्मादात्मनस्तत्प्राप्तिमिच्छन् ग्रन्थकारश्चारित्रं स्तोतुं चारित्रमित्याद्याह चारित्रं सर्वजिनेश्वरितं प्रोक्तं च सर्वशिष्येभ्यः । प्रणमामि पंचभेदं पंचम चारित्रलाभाय ॥ ६ ॥ टीका-प्रणमामि । किं तत् ? चारित्रं । किंविशिष्टं ? पंचभेदं-सामायिकादिपंचप्रकारं । तथा सर्वजिनैश्चरितं कर्मक्षयार्थं स्वयमनुष्ठितं, प्रोक्त च सर्वशिष्येभ्यः-अस्पष्टं यथावत्येवमुक्त प्रतिपादितं सकलभव्यजनेभ्यः। किमर्थं भवता तत्प्रणम्यते ? पंचमचारित्रलाभाय-पंचमचारित्रं निःशेषकर्मक्षयप्रसाधकं यथाख्यातं चारित्रं तस्य लाभाय प्राप्तये ॥ ६॥ .. तस्यौव चारित्रस्य धर्मापरशब्दाभिधेयस्य सप्तविभक्तिनिर्देशन स्वरूपं प्रशस्यात्मनस्ततो रक्षां प्रार्थयमानः प्राह धर्म इत्यादिधर्मः सर्वसुखाकरो हितकरो धर्म बुद्धाश्चिन्वते धर्मेणैव समाप्यते शिखसुखं धर्माय तस्मै नमः । धर्मान्नास्त्यपरः सुहृद्भवभृतां धर्मस्य मूले दया धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म ! मां पालय ॥७॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy