SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५८ www.kobatirth.org क्रिया-कलापे शिवसुखफलदायी यो दयाछाययोद्यः शुभजनपथिकानां खेदनोदे समर्थः । दुरितर विजतापं प्रापयन्नन्तभावं Acharya Shri Kailassagarsuri Gyanmandir भवविभवान्यै नोsस्तु चारित्रवृक्षः ॥ ५ ॥ i टीका - वृक्षस्य हि मूलानि भवन्ति अयं तु चारित्रवृक्षः व्रतसमुदयमूलः- दानां समुदय: समृद्धिसमुदायो वा मूलानि यस्य । तथा वृक्षस्य स्कन्धो भवति अयं तु चारित्रवृक्षः संयम स्कन्धबन्धः -- शाखानिर्गमप्रदेशसनिवेशविशेषो यस्य । तथा वृक्षो जलेन वर्धते अयं पुनर्यमनियम पयोभिर्ववितः - यमो यावज्जीवत्रतं नियमो नियतकालं व्रतं तावेव पयांसि तैर्वर्धितः । तथा वृक्षस्य शाखा भवन्ति यं तु शीलशाख : - व्रत परिरक्षणं शीलं अष्टादशसहस्रसंख्यानि वा शीलानि तान्येव शाखा यस्य । तथा वृक्षः कलिकासमूहसमन्वितो भवति चारित्रवृक्षस्तु समितिकलिकभारः - कलिकानां पुष्पवोंडिकानां भारः संघातः कलिकभारः वेद्याप्योः कचित्स्वौ चेति प्रदेश शिंशप स्थलमित्यादिवत्, समितय एव कलिकभारो यस्य । तथा वृक्षः सत्पल्लवो भवति तु गुप्तिगुप्तप्रबालः- गुप्तीनां गुप्तं रक्षणं तदेव प्रवालाः पल्लवा यस्य गुप्तय एव वा गुप्ता रक्षिता तिरोहिता वा प्रवाला यस्य । तथा वृक्षः पुष्पसुगन्धिर्भवति अयं तु गुणकसुमसुगन्धिः - चतुरशीति• लक्षणसंख्या गुणा एव कुसुमानि तैः सुगन्धिः परिमलामादः । तथा वृक्षः पत्राढ्यो भवति अयं तु सत्तपरिचत्रपत्र: -- सत्तपांसि सम्यक्तपांसि तान्येव चित्राणि नानाप्रकाराणि पत्राणि यस्य । तथा वृक्षः फलप्रदो भवति चारित्रवृक्षः पुनः शिखसुखफलदायी -- शिवसुखं सोचसुखमनन्तं तदेव फलं तद्ददातीत्येवंशीलः । तथा वृक्षो घनच्छायः पथिकानां खेदापहारी दिनकरतापापनोदकारी च भवत्ययं तु दयाछाययोद्यः - दयैव छाया प्राणिनां संतापाकारित्वेन शीतलत्वात्याः प्रशस्तः, शुभजनपथिकानां खेदनोदे समर्थः -- शुभजना भव्यजनास्त For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy