SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वीरभक्तिः । भगवतः सम्बन्धि नान्येषां । वीरे श्री युति कान्ति-कीर्ति धृतयः-श्रीरन्तरंगा - बहिरंगा चानंतज्ञानादि - - समवसरणादिविभूतिः, द्युतिर्देहज्योतिः, कान्तिः कमनीयता लावण्यविशेषो वा, कीर्तिः सार्वत्रिकी ख्यातिः वाणी वा कीर्त्यन्ते जीवादयोऽर्था ययेति व्युत्पत्तेः धृतिः निराकांक्षता यत एतास्त्वयि विद्यन्तेऽतः हे वीर ! भद्रं - - परमकल्याणं त्वयि ॥ २ ॥ " Acharya Shri Kailassagarsuri Gyanmandir इत्थंभूते च त्वयि भगवन् ! ये भक्ति कुन्ति तेर्षा फलमुपदर्शयन्नाह ये वीरेत्यादि ये वीरपादौ प्रणमन्ति नित्यं ध्यानस्थिताः संयमयोगयुक्ताः । ते वीतशोका हि भवन्ति लोके संसारदुर्ग विषमं तरन्ति ॥ ३ ॥ २५७ टीका--ये भव्यजनाः वीरपादौ प्रणमन्ति नित्यं । किंविशिष्टाः ? ध्याने स्थिताः -- एकाग्रतां गताः । संयमयोगयुक्ताः -- संयमेन दशप्रकारेण यावज्जीवतलक्षणेन वोपलक्षितो योगो मनोवाक्कायव्यापारं चित्तवृत्तिनिरोधो वा तेन युक्ताः सन्तः । ते बीतशोकाः -- विनष्टशोकाः, हिस्फुटं लोके - त्रिभुवने भवन्ति शोको ह्यधर्मप्रभवः तत्प्रणामे च विशिष्टधर्मोत्पत्तेः, अधर्मप्रक्षयाच्छोकाभावः । एवंविधाश्च ते संसारदुर्गं विषमं तरन्ति--संसार एवं दुर्गं महादवीविषमं रौद्रमनेक प्रकारदुःखदायिकत्वेन भयानकत्वात् तत्तरन्ति श्रतिक्रामन्ति लंघयन्ति ॥ ३ ॥ R इदानीं भगवदुपदिष्टश्चारित्रवृक्षोऽस्माकं भवविभवहान्यै भवस्वित्यभिनंदयन्नाह व्रतेत्यादि - व्रतसमुदयमूलः संयम स्कन्धबन्धो यम नियमतपोभिर्वर्धितः शीलशाखः । समितिकलिकमारो गुप्तिगुप्तप्रवालो गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः ॥ ४ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy