SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૬ तेषां सर्वद्रव्याणां सम्बन्धिनो ये गुणाः सहभुवो धर्मा ये च पर्यायाः क्रमभुवो विवर्तास्तानपि सर्वान् सर्वथा यशेषविशेषतो जानीते । कथंभूतान् ? भूतभाविभवतः - अतीतानागतवर्तमानान् । किं कदाचिदेवासौ तांस्तथा जानीते ? न सदा सर्वकालं । ननु कालादिक्रमेण सौ तस्तिथा ज्ञास्यतीत्याह युगपत् -- एक हेलयैव न पुनर्देशकालस्वभाव क्रमेण करणक्रमव्यवधानातिवर्तिज्ञानस्वभावात्तस्य । तर्हि कस्मिंश्चिदेव क्षरणे तांस्तथा ज्ञास्यति पश्चान्तु क्रमेणेत्याह प्रतिक्षणं - क्षणं क्षणं प्रति तांस्तथा जानीते न पुनः कस्मिंश्विदेव क्षणे । यत एवंविधो भगवान् अतः सर्वज्ञ इत्युच्यते - सर्वं हि वस्तु युगपद्याथावज्जानातीति सर्वज्ञः । तस्मै सर्वज्ञाय जिनेश्वराय - देशजिनस्वामिने महते - गुणोत्कृष्टाय, वीराय अन्तिमतीर्थंकराय नमः ॥ १ ॥ तदेव तन्महत्वं सप्तविभक्तिनिर्देशेन गुणस्तवनद्वारेण प्रद र्शयति वरः सर्वगसुरेन्द्रमहितो वीरं बुधाः संत्रिता वीरेणाभिहतः स्वकर्मनिचयो वीराय भक्त्या नमः । वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्री द्युति कान्ति कीर्ति धृतयो हे वीर ! भद्रं त्वयि ॥ २ ॥ टीका - वीरः सर्वसुरासुरेन्द्रमहितः सर्वे च ते सुरासुरेन्द्राश्व वैमानिक भवनवास्यादीन्द्रास्तैर्महितः पूजितः । वीरं बुधाः संश्रिताःसंसारसमुद्रोत्तरणार्थं समाश्रिताः । वीरेणाभिहतः - विनाशितः । aisaौ ? स्वकर्मनिचयः स्वस्य स्वकीयानां वा भव्यानां कर्मनिचयो ज्ञानावरणादिकर्मसंघातः । इत्थंभूताय वीराय भक्त्या नमः । वीरात्तीर्थमिदं प्रवृत्तं तीर्यते संसारसमुद्रो येन तत्तीर्थं श्रुतमिदमं गांगबाह्यभेदभिन्नं । किंविशिष्टं ? अतुलं-- निर्वाधत्वेन विशिष्टार्थप्रतिपादकत्वेन चानुपमं । वीरस्य घोरं तपो दुष्करं तपो बाह्यमाभ्यन्तरं च वीरस्य क्रया-कलापे- ---- Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only -
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy