Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्यभक्तिः।
२७५
उद्भांताः यथावदात्मस्वरूपात्प्रच्याविताः। ते कथंभूताः सन्तो विशश्वसुः ? विगतकलुषाः विनष्टक्रूरभावाः। किंविशिष्टौ पादौ ? हेमाम्भोजप्रचारविज़म्भितौ हेमाम्भोजेषु सुवर्णमयपद्मषु प्रचारः प्रकृष्टोऽन्यजनासंभवी चरणक्रमसंचाररहितश्चारो गमनं तेन विजृम्भितौ विलसितौ शोभितौ तेषां वा प्रचारो रचना 'पादन्यासे पद्म सप्त पुरः पृष्ठतश्च सप्त' इत्येवंरूपः तत्र विजृमितौ प्रवृत्तौ विलसितौ वा। पुनरपि किंविशिष्टौ तावित्याह अमरेत्यादि-अमरा देवाः तेषां मुकुटानि तेषु छाया छायामणयः तत उद्गीर्णा निःसृता सा चासौ प्रभा च तया परिचुंबितौ संश्लिष्टौ आलिं. गितौ ॥१॥ तदनु जयति श्रेयान्धर्मः प्रवृद्धमहोदयः
कुगतिविपथक्लेशाद्योसौ विपाशयति प्रजाः । परिणतनयस्यांगीभावाद्विविक्तविकल्पितं
भवतु भवतस्त्रात बंधा जिनेंद्रवचोऽमृतम् ॥२॥ टीका-तदन्वित्यादि। तस्माद्भगवन्नमस्कारादनु पश्चात्। जयति । कोसौ ? धर्मो नरकादिषु गतिषु पततः प्राणिनो धरतीति धर्म उत्तमक्षमादिलक्षणश्चारित्रस्वरूपो वा । कथंभूतः ? श्रेयान् अतिशयेन प्रशस्यः । पुनरपि कथंभूतः ? प्रवृद्धमहोदयः प्रकर्षेण वृद्धो वृद्धिं गतो महान् उदयः स्वर्गादिपदप्राप्तिर्यस्मात्प्राणिनां । पुनरपि कथंभूतः ? योसौ धर्मः । प्रजाः लोकान् । विपाशयति पाशाद्विमोचयति । कथंभूतात्पाशादित्याह कुगतीत्यादि-कुत्सिता गतिः कुगतिः, विरूपकः पंथाः विपथो मिथ्यादर्शनादिः, क्लेशो दुःखं, कुगतिश्च विपथश्च क्लेशश्च तत्तस्मात्तद्र. पादित्यर्थः । पूर्वार्धन धर्मं नमस्कृत्योत्तरार्द्धन जैनेन्द्र वचो नमस्कुर्वन्नाह परिणतेत्यादि-विविधपर्यायरूपतया परिणमते यत्तत्परिणतं द्रव्यमुच्यते तत्र नयः परिणतनयो द्रव्यार्थिकनयः तस्य अंगीभावात् अप्रधानभावात् पर्यायार्थिकनयप्राधान्यादित्यर्थः। अथवा परिणतं परिणामस्तत्र नयः
For Private And Personal Use Only

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358