Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे--
टीका-जिनेन्द्रोक्तं जिनेन्द्रप्रतिपादितं धर्म उत्तमक्षमादिलक्षणं चारित्ररूपं वावंदे। कथंभूतमित्याह क्षान्तीत्यादि । क्षान्तिः क्षमा, आर्जवमवक्रता ते आदिर्येषां । अादिशब्देन मार्दवसत्यशौचसंयमतपस्त्यागा. किंचन्यब्रह्मचर्याणि गृह्यन्ते । ते च ते गुणाश्च तेषां गणः समूहः सुशोभनं साधनं यस्य स तथोक्तस्तं । ननु चारित्रलक्षणधर्मस्य क्षान्त्यादिसुसाधनत्वं युक्त न पुनरुत्तमतमादिलक्षणं तस्यैव तद्ध तुत्वविरोधात् इति चेत् न द्रव्यरूपाणां तेषां भावरूपक्षमादिहेतुत्वे भावरूपाणां च द्रव्यरूपक्षमादिहेतुत्वे विरोधासंभवात् । पुनरपि कथंभूतं ? सकललोकहितहेतु सकलाश्च ते लोकाश्च प्राणिनः तेभ्यो हितं सुखं तद्ध तुश्च तस्य हेतुस्तं । शुभधामनि धातारं शुभं च तद्धाम च निर्वाणं तत्र धातारं स्थापयितारं ॥ ६॥
___ एवं जिनेन्द्रोक्तं धर्म स्तुत्वा तद्वचनं स्तोतुमाहमिथ्याज्ञानतमोवृतलोकैकज्योतिरमितगमयोगि । सांगोपांगमजेयं जैनं वचनं सदा वंदे ॥ ७ ॥
टीका-मिथ्याज्ञानेत्यादि । मिथ्याज्ञानं विपरीतज्ञानं तदेवतमःतेन वृतः प्रच्छादितः स चासौ लोकश्च तस्यैकं अद्वितीयं ज्योतिः जीवाद्यशेषतत्त्वप्रकाशकत्वात् । अमितगमयोगि अमितोऽपरिमितः असंख्यातः स चोसौ गमश्च अशेषार्थविषयं श्रुतज्ञानं तेन योगः संबंधः कार्यकारणभावलक्षणः श्रुतस्य तज्जनकत्वात् । यदि वा अमितगमोऽनंतावबोधः केवलज्ञानं तेन योगः तस्य तजन्यत्वात् सोऽस्यास्तीति तद्योगि । सांगोपांग अंगानि आचारादीनि उपांगानि पूर्ववस्तुप्रभृतीनि सह तैर्वर्तते इति सांगोपांगं । न जीयते एकान्तवादिभिरिति अजेयम् । शक्यार्थस्य अविवक्षितत्वादजय्यमिति न भवति । तदेवंविधं जैनं वचनं सदा वंदे जिनस्येदं जैनमित्यनेनेश्वरादिवचनव्यवच्छेदः । सदा इत्यनेन नियतकाल. विषयस्तुतिव्युदासः ॥७॥
For Private And Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358