Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चैत्यभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा भवत्येवं विघट्य । विघटितमपि हि द्वारं अर्गलासद्भावे नेष्टप्रदेशे प्रवेष्टुं प्रयच्छति । कथंभूतं मोक्षं ? विगतरजसं रजो ज्ञानदृगावरणे सकलकर्माणि वा, विगतं विनष्ट' रजो यत्र । निरत्ययं श्रत्ययो व्याधिः जरामरणे वा ततो निष्क्रांतं । श्रव्ययं अविनश्वरं ॥ ३ ॥
अर्हत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः । सर्वजगद्वंद्येभ्यो नमोस्तु सर्वत्र सर्वेभ्यः ॥ ४ ॥
२००
टीका - अर्हत्सिद्ध त्यादि । अर्हन्तश्च सिद्धाश्च आचार्याश्च उपाध्यायाश्च तेभ्यो नमोस्तु नमस्कारो भवतु । तथा च तथैव साधुभ्यो नमोस्तु । कथंभूतेभ्यः ? सर्वजगद्वंद्येभ्यः सर्वाणि च तानि जगन्ति च त्रयो लोकास्तेषां वंद्याः तेभ्यः । किं नियते दोत्रे नियतेभ्यः इत्याह सर्वत्र सर्वेभ्यः ॥ ४ ॥
पंचपरमेष्ठिनः सामान्येन नमस्कृत्य मोहादीत्यादिना श्रर्हतः पुनर्विशेषतः नमस्करोति, तेषां धर्मोपदेष्टृत्वेनोपकारकरत्वात्मोहादिसर्व दोषारिघातकेभ्यः सदाहतरजोभ्यः । विरहितरइस्कृतेभ्यः पूजाद्देभ्यो नमोऽईद्भयः ॥ ५ ॥
I
टीका - मोहो मोहनीयं स आदिर्येषां क्षुधादीनां ते च ते सर्वे दोषाश्च त एवारयोऽरिकार्यकारित्वात् । यथैव हरयो दुखदा एवमेतेऽपि । तेषां घातकेभ्यः । सदाहतरजोभ्यः सदा सर्वकालं हते विनाशिते रजसी ज्ञानeगावरणे यैः । विरहितरहस्कृतेभ्यः रहस्कृतमंतरायो विरहितं स्फेटितं रहस्कृतं यैः । पूजार्हेभ्य इन्द्राद्युपनीतां अतिशयवतीं पूजामईन्तीति पूजाहस्तेभ्यो नमोऽर्हद्भयः ॥ ५ ॥
एवमर्हता वंदित्वा तद्धमं वंदमानः क्षान्त्यार्जवादीत्याग्राहक्षान्त्यार्जवादिगुणगणसुसाधनं सकललोकहितहेतुं । शुभधामनि धातारं वंदे धर्म जिनेन्द्रोक्तम् ॥ ६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358