Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 281
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ क्रियाकलापे इन्द्रियाश्वा येनासौ दान्तेन्द्रियाश्वस्तं । तथा विमलं स्तौमि विगतो विनष्टो मलो द्रव्यभावरूपः कलक्को यस्यासौ विमलस्तं । कथंभूतं ? ऋषिपति---सप्तर्द्धिसमन्विता ऋषयो गणधरदेवादयस्तेषां पतिं स्वामिनं । तथा सैंहसेन्यं--अनन्ततीर्थकरदेवमीडे सिंहसेनो राजा तस्यापत्यं “सेनान्तलक्ष्मणकारिभ्य इञ्च धोरिण्य" ध्यारेयुः (?)। तथा धर्म--धर्मतीर्थकरदेवं स्तौभि । किंविशिष्टं ? सद्धर्मकेतु-सद्धर्मः सम्यकचारित्रं उत्तमक्षमादि केतुश्चिह्न यस्यासौ सद्धर्मकेतुस्तस्य वा केतुआपकः प्रकाशस्तं, तथा मुनीन्द्र--गणधरादिमुनिस्वामिनं, अथवा मुनिः प्रत्यक्षवेदी स चासौ इन्द्रश्च गणधरादीनां स्वामी । तथा शान्ति स्तौमि । कथंभूतं ? शमदमनिलयं-शमः परमोपशमो दम इन्द्रियजयस्तयो. निलयमाश्रयं, तथा शरण्यं--कारातिप्रभवचातुर्गतिकदुःखभयत्रस्ताना शरणे तदुःखञासपरिरक्षणे साधुः तम् । कुंथु सिद्धालयस्थं श्रमणपतिमरं त्यक्तभोगेषु चक्रं माल्लि विख्यातगोत्रं खवरगणनुतं सुव्रतं सौख्यराशिम् । देवेन्द्राय नमीशं हरिकुलतिलक नेमिचंद्रं भवान्तं पार्थ नागेन्द्रवन्धं शरणमहमितो वर्द्धमानं च भक्त्या ॥५॥ टीका-कुंथु-कुन्थु तीर्थकरदेवं शरणमहमितः-गतः, संसारार्णवावर्तदुस्सहदुःखभयत्रस्तोऽहं तद्दुःखापनोदार्थं कुथुनाथमाश्रित इत्य. र्थः । किंविशिष्ट ? सिद्धालयस्थं - सिद्धानां परापरसिद्धिस्वरूसंपन्नानां मुक्तात्मनामालयः समवसरणं मोक्षप्रदेशश्च तत्रस्थं, तथा श्रमणपतिगणधरादिपति स्वामिनं । तथा अरं-अरतीर्थकरदेवं शरणमहमितः । कथंभूतं ? त्यक्तभोगेषु चक्रं -भोगा एव इपवो वाणाः प्राणिनां मर्मवेधित्वात्पीडाकरत्वाच्च तेषां चक्र संघातस्तं त्यक्तं येन, अथवा भोगाश्च इषवश्च चक्र च चक्ररत्नं तानि त्यक्तानि येन तं। तथा मल्लिं-मल्लिनाथं शरणमहमितः । किंविशिष्टं ? विख्यातगोत्रं-विशेषेण ख्यातं १-चशब्दात् “कुर्वादेर्यः" इतो ण्यः इत्यध्याहरेत् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358