Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शान्त्यष्टकम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२६७
टीका - क्रुद्ध ेत्यादि । शीः सर्पदंष्ट्रा आश्यां विषं यस्यासावाशीविषः क्रुद्धश्चासावाशीविषश्च तेन दृष्टे भक्षिते दुर्जयश्चासौ विषज्वालावलीविक्रमश्च विक्रमः प्रसरः, सामर्थ्यं वा स यथा शान्ति प्रकृष्टोपशमं याति । कैः कृत्वा ? विद्याभेषजमंत्र तोयहवनैः विद्या च मुद्रामंडलावर्तनं भेषजं चौषधं मंत्रश्च तोयं च हवनं होमश्च । तद्वत्तथा । सहसा झटिति । शाम्यंति । के ते ? विघ्नाः । न केवलं विघ्नाः । कायविनायकाच कायं विशेषेण नयंति अपनयंतीति कार्याविनायकाः रागाः । केषां ? नृणां । कथंभूतानां इत्याह ते इत्यादि - ते तव चरणावेव अरुणं रक्तं अम्बुजयुगं तत्स्तोत्रोन्मुखानां स्तवनाभिमुखानां । अहो लोकाः विस्मयः आश्चर्यमेतत् । विषमात्रमुक्तप्रकारेण प्रयासेनोपशमं याति विनादयः पुनर्भवत्पादद्वयस्तवनमात्रेणेति ॥ २ ॥
तथा भवत्प्रणामात्प्राणिनां किं भवन्तीत्याह - संतप्तोत्तमकांचनक्षितिधर श्रीस्पर्द्धिगौरद्युते
पुंसां त्वच्चरणप्रणामकरणात्पीडाः प्रयान्ति क्षयं । उद्यद्भास्करविस्फुरत्करशतव्याघात निष्कासिता
नानादे हि विलोचनद्युतिहरा शीघ्रं यथा शर्वरी ॥३॥
टीका - संतप्तेत्यादि । संतप्त च तदुत्तमकांचनं च तेन सदृशः क्षितिधरो मेरुस्तस्य । अथवा संतप्तोत्तमकांचनं च क्षितिधरश्च तयोः श्रीः शाभा तया या स्पर्द्धिनी सहशी गौरी द्य तिर्यस्य तस्य संबोधनं संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्विगौरद्युते भगवन् ! त्वच्चरणप्रणामकरणात् पुस पीडाः प्रयांति क्षयं । अत्रैवार्थे दृष्टांतमाह उद्यदित्यादि । यथा शर्वरी रात्रिः शीघ्रं क्षयं प्रयाति । किंविशिष्टा ? नानादेहिविलोचन
For Private And Personal Use Only
तिहरा अनेकप्राणिचक्षुः प्रकाशप्रतिबंधिका । पुनरपि कथंभूतेत्याह उद्यदित्यादि -- उद्यन्नुदयं गच्छञ्चासौ भास्करश्च तस्य विस्फुरंतश्च ते कराश्च तेषां शतानि तैव्र्व्याघातो हृढप्रहारः तेन निष्कासिता निस्सारिता॥३॥

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358