Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतितीर्थंकर-भक्तिः । २६५ सकललोकप्रसिद्धं गोत्रमिक्ष्वाकुलक्षणं यस्य तं तथा खचरगणनुतं - आकाशे चरन्ति गच्छन्तीति खचरा देवा विद्याधराश्च तेषां गणाः संघातास्तैर्नृतं स्तुतं । तथा सुत्रतं शरणमहमितः - शोभनानि व्रतानि यस्य यस्माद्वा भव्यानामसौ सुव्रतस्तं । कथंभूतं ? सौख्यराशिसौख्यानां राशिः संघातो यस्मिन् यस्माद्वा भव्यानामसौ सौख्यराशिस्तं, अनन्त सौख्य मय स्तत्सौख्य सम्पादको वेत्यर्थः । तथा नमीन्द्रं - नमिनाथं शरणमहमितः । किंविशिष्टं ? देवेन्द्रार्य- देवेन्द्रैरर्च्छत इति देवेन्द्रार्यस्तं । तथा नेमिचंद्रं शरणमहमितः - चन्द्र इव चंद्रो नेमिश्चासौ चन्द्रश्च यथा चन्द्रः सूर्यकरसन्तप्तानां सन्तापापनोदकः तमोनिकरनिराकारकः सन्मार्गे प्रकाशकश्चेति, अतएव भवति -- भवस्य संसारस्यान्तो विनाशो यस्मिन् यस्माद्वा भव्यानामसौ भवान्सस्तं, तथा हरिकुलतिलकं - हरेर्विष्णोः कुलं यादववंशस्तस्य तिलकं मण्डनीभूतं । तथा पार्श्वनाथं शरणमहमितः । कथंभूतं ? नागेन्द्रवन्द्य', धरणेन्द्रवन्यं, अथवा नागाश्च नागकुमारा इन्द्राश्च तैर्वन्द्य । तथा वर्धमानं च नागेन्द्रवन्द्य ं शरणमहमितः । कया ? भक्त्या - गुणानुरागविशेषेण । भक्त्येत्येतदन्त्यदीपकमीडे स्तौमि इत इत्येतेषां प्रत्येकमभिसम्बन्धनीयम् । अञ्चलिका इच्छामि भंते ! चउवीस तित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं । पंचमहाकल्लाण संपण्णाणं, अट्टमहापाडिहेरसहियाण, चउतीसअतिसय विसेस संजुत्ताणं, बत्तीसदेविंदमणिमउडमत्थयमहियाणं, बलदेववासुदेवचकहररिसिणिजह अणगारो. वगूढाणं, थुइसयस हस्सणिलयाणं, उसहाइवीर पछिम मंगलमहापुरिसाणं णिच्चकाल अचेमि, पुज्जेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बाहिलाहो, सुगइगमण, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झ । Y For Private And Personal Use Only -

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358