Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ a श्रीकल्प मुक्तावल्या श्री समाचारि . // 438 // निश्चितमत्र लपस्येऽहमितिविश्वासो येषु तानि वैश्वासिकानि-तथा सम्मतानि (यतिप्रवेशयोग्यानि / तथा बहुमतानि-(बहुमुनिप्रवेशमतानि) तथा-अनुमतानि-दानं दातुं अनुमतवन्ति-अर्थात् सर्वसाधुभ्यो वा तुल्यसन्मानवन्ति. अणुरपि-क्षुल्लकोऽपि यदि स्यात् तस्मै अपि श्रद्धया दानं अनुज्ञातानि, नतु मुख दृष्टवा तिलकमाचरन्ति-किन्तु अनुमतानि-अणुमतानि वा भवन्ति-तथा तत्र तेषु गृहेषु तस्य साधोः वाच्यं वस्तु अदृष्टवा इति वक्तुं न कल्पते-यथा हे-आयुष्मन् ? इदं-इदं वा वस्तु-अस्ति-इति-अदृष्टं वस्तु प्रष्टुं न कल्पते -इत्यर्थः तत् कुतो भगवन् ? इति शिष्यप्रश्ने गुरूराह / यतस्तथाविधः श्रद्धावान् गृही मूल्येन गृहीत यदि च मूल्येनापि न प्रामोति तदा स गृही श्रद्धाऽतिशयेन चौर्यमपि कुर्यात्-कृपणगेहे तु-अदृष्टवाऽपि योचने नदोषः॥१९॥ मृ-पा-वासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एग गोयरकालं गाहावइ कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा / णऽन्नत्थ आयरियवेयावच्चेण वा एवं उवज्झायवेयावच्चेण वा तवस्सि वेयावच्चेण वा गिलाणवेयावच्चेण वा खुड्डएण वा खुड्डियाए वा अव्वंजणजायएण वा // 20 // व्याख्या-चतुर्मासकं स्थितस्य नित्यमेकासनकारिणः भिक्षोः कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलं गृहम्-भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टं वा कल्पते न तु द्वितीयवारं परं णकारो वाक्यादौ अलङ्कारार्थःअन्यत्राचार्यकादीनां, वैयावृत्यकराश्च ये, वर्जयित्वा च तान् नान्ये, भोक्तुमर्हन्ति बुध्यताम् // 1 // 1 द्विवारमिति // 438 //

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512