Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
View full book text
________________ श्री कल्पमुक्तावल्या श्रीसमाचारि // 676 // कर्मपञ्जरात-तथा परिनिर्वान्ति कर्मकृतसर्वतापोपशमनात्-शीतीभवन्ति सर्वदुःखानां शारीरिकमानसानाम् अन्तं कुर्वन्ति–सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्धयन्ति यावत्-अन्तं कुर्वन्ति.सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे यावत् अन्तं कुर्वन्ति / जघन्ययाऽपि एतदाराधनया सप्ताष्टभवांस्तु पुनः नातिक्रामन्तीति भाव-॥६३॥ एतत्सर्वं न स्वकपोलकल्पनयोच्यते किश्च // श्री भगवदुपदेशपारतंत्र्येणेत्याह // मू-पा-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूर्ण समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परुवेइ पन्जोसवणाकल्पो नाम अज्झयणं सअह अहेउअं सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुज्जो भुज्जो उवदंसेइ तिबेमि // 64 // व्याख्या-तस्मिन् काले चतुर्थारकपर्यन्ते तस्मिन् समये. श्रमणो भगवान् महावीरः राजगृहे नगरे समवसरणावसरे गुणशैल-नामचैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां देवानां बहूनां देवीनां मध्यगत एव नतु कोणके प्रविश्य प्रच्छन्नतयेति भावः // एवमाख्याति कथयति एवं भाषते वाग्योगेन एवं प्रज्ञापयति फलकथनेन एवं प्ररूपयति दर्पणे इव श्रोतृहृदये सङ्क्रमयति / पर्युषणाकल्पो नाम अध्ययनं अर्थन प्रयोजनेन सहितं न तु निष्प्रयोजनम् / सहेतुकं हेतवो निमित्तानि यथा गुरून् स्पृष्टवा सर्व कर्तव्यम् तत् केन हेतुना यतः- आचार्याः प्रत्यपायं जानन्तीत्यादयो // 476 //

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512