Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 486
________________ भीसमा श्री कल्प मुक्तावल्यां चारि // 456 // नाम प्रसिद्धौ-स सूक्ष्मपनकः // 2 // अथ कानि तानि सूक्ष्मबीजानि गुरुराह-सूक्ष्मबीजानि पञ्चविधानि प्रज्ञतानि तद्यथा-कृष्णानि यावत्-शुक्लानि सन्ति सक्ष्मबीजानि बीजानां मुखमूले कणिकनखिकासमानवर्णानि-नाम प्रज्ञतानि यानि छद्मस्थेन यावत-प्रतिलेखितव्यानि भवन्ति तानि सूक्ष्मबीजानि // 3 // अथ कानि तत् सूक्ष्महरितानि 1 गुरूराह-सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि तघया कृष्णानि यावत्शुक्लानि सन्ति सूक्ष्महरितानि पृथिवीसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि यानि साधुना साध्या वा यावत प्रतिलेखितव्यानि भवन्ति तानि सक्ष्महरितानि हरितसूक्ष्म नवोद्भिनं पृथ्वीसमवर्ण हरितं तच्चाल्पसंहननत्वातस्तोकेनापि विनश्यति // 3 // अथ कानि तत् सूक्ष्मपुष्पाणि 1 गुरुराह सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि तद्यथा कृष्णानि यावत् शुक्लानि सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि सूक्ष्मपुष्पाणि वटोदुम्बरादीनां तानि चोच्छ्वासेनापि विराध्यन्ते यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति तानि सूक्ष्मपुष्पाणि // 4 // अथ कानि तत् सक्ष्माण्डानि गुरुराह-सक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि तद्यथा--उदंशाण्डं 1 (मधुमक्षिकामत्कुणादीनामण्डमिति) उत्कलिकाण्डम् 2 (लूतापूताडण्डमिति लोकप्रसिद्धिः / पिपीलिकाण्डम् 3 कीटिका:-इति प्रसिद्धम्) तथा हलिकाण्डम् 4 / हलिका शब्देन गृहकोलिका--ब्राह्मणी च // 456 //

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512